शस्त्रं (zastraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishशस्त्रं [शस्-ष्ट्र्न्] 1 A weapon, arms
क्षमाशस्त्रं करे यस्य दुर्जनः किं करिष्यति Subhāṣ., R. 2. 40, 3. 51, 62
5. 28.
2 An instrument, a tool in general.
3 Iron.
4 Steel.
5 A hymn of praise (स्तोत्र).
6 Repetition, recitation.
Comp.
अब्यासः the practice of arms. military exercise.
अयसं {1} steel. {2} iron.
अस्त्रं {1} weapons for striking and throwing, arms and missiles. {2} arms or weapons generally.
आजीवः,
उपजीविन् m. a professional soldier.
उद्यमः lifting up a weapon (to strike).
उपकरणं arms or instruments of war, military apparatus.
कारः an armourer.
कोषः the sheath or scabbard of any weapon.
ग्राहिन् a. taking up or wearing arms (for battle)
शस्त्रग्राही ब्राह्नणो जामदग्नयः U. 5. 33.
जीविन्,
वृत्ति m. one living by the use of arms, a professional soldier.
देवता the deity presiding over weapons.
धरः = शस्त्रभृत् q. v.
न्यासः laying down arms
so शस्त्र (परि) त्यागः.
पणि a. bearing arms, arm. ed. (
m.) an armed warrior.
पूत a. ‘purified by arms’, rendered pure or absolved from guilt by being killed with a weapon on the battle-field
अशस्त्रपूतं निर्व्याजं ( महामांसं) Māl. 5. 12
(see Jagaddhara's explanation of the word)
अहमपि तस्य मिथ्याप्रतिज्ञौवलक्ष्यसंपादितमशस्त्रपूतं मरणमुपदिशामि Ve. 2.
प्रहारः a wound inflicted with a weapon.
भृत् m. {1} a soldier, warrior
R. 2. 40. {2} an armed man.
मार्जः a weapon-cleaner, an armourer, a furbisher.
विद्या,
शास्त्रं the science of arms.
संहतिः f. {1} a collection of arms. {2} an arsenal.
संपातः a sudden fall of a number of weapons.
हत a. killed by a weapon.
हस्त a. armed. (
स्तः) an armed man.
Hindi
Hindiहथियार
शब्दकल्पद्रुमः
Sanskritशस्त्रं, (शस्यते हिंस्यते अनेन । “अमिचि-मिदिशसिभ्यः क्त्रः ।” उणा० ४ । १६३ । इतिक्त्रः । यद्बा, “दाम्नीशसुयुयुजेति ।” ३ । २ । १८२ ।इति ष्ट्रन् ।) लोहम् । अस्त्रम् । इत्यमरः ॥
शस्त्रास्त्रैर्बहुधा मुक्तैरित्यादिदर्शनात् शस्त्रा-स्त्रयोः कश्चिद्भेदमाह । येन करधृतेन हन्यतेतत् शस्त्रं खड्गादि । येन क्षिप्तेन हन्यतेतदस्त्रं काण्डादि । इति तट्टीकायां भरतः ॥
तत्पर्य्यायः ।“अस्त्रे शस्त्रं प्रहरणमुद्घातो हेतिरायुधः ।”इति शब्दरत्नावली ॥
“एकैकमस्त्रं शस्त्रञ्च देवैर्मुक्तं सहस्रधा ।चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥
”इति विष्णुपुराणे ५ अंशे ३० अध्यायः ॥
अस्त्रं मन्त्राभिमन्त्रितम् । शस्त्रं तदितरत् । इतितट्टीका ॥
* ॥
राज्ञां अस्त्राचार्य्यो यथा, --“यन्त्रयुक्ते पाणियुक्ते अयुक्ते युक्तधारिते ।अस्त्राचार्य्यो निरुद्बेगः कुशलश्च विशिष्यते ॥
”तदगारनियुक्तस्य लक्षणं यथा, --“स्थापनाजातितत्त्वज्ञः सततं प्रतिजागृता ।राज्ञः स्यादायुधागारे दक्षः कर्म्मसु चोद्यतः ॥
”इति मात्स्ये १८९ अध्यायः ॥
अस्त्रचिकित्सा यथा । अथातोऽग्रोपहरणीय-मध्यायं व्याख्यास्यामः । त्रिविधं कर्म्म । पूर्व्व-कर्म्म प्रधानकर्म्म पश्चात्कर्म्मेति । तद्व्याधिप्रत्युपदेक्ष्यामः । अस्मिन् शास्त्रे शस्त्र कर्म्मप्राधान्यात् शस्त्रकर्म्मैव तावत् पूर्व्वमुपदेक्ष्याम-स्तत्सम्भारांश्च । तच्च शस्त्रकर्म्माष्टविधम् ।तद्यथा । छेद्यं भेद्यं लेख्यं वेध्यमेष्यमाहार्य्यंविश्राव्यं सीव्यमिति ॥
* ॥
अतोऽन्यतमं कर्म्मचिकीर्षता वैद्येन पूर्व्वमेवोपकल्पयितव्यानि ।तद्यथा । यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्गतुम्ब-जलौकालावूजाम्बवोष्ठपिचुप्लोत-सूत्रपत्रपट्टमधु-घृतवसापयस्तैलतर्पणकाषायालेपनकल्कव्यजन-शीतोष्णोदककटाहादीनि परिकर्म्मिणश्चस्निग्धाः स्थिरा वलवन्तः । ततः प्रशस्तेषु तिथि-करणमुहूर्त्तनक्षत्रेषु दध्यक्षतान्नपानरत्नैरग्निंविप्रान् भिषजश्चार्च्चयित्वा कृतवलिमङ्गलस्वस्ति-वाचनं लघु भुक्तवन्तं प्राङ्मुखमातुरमुपवेश्ययन्त्रयित्वा प्रत्यङ्मुखो वैद्यो मर्म्मशिरास्नायु-सन्ध्यस्थिधमनीः परिहरन्ननुलोमं शस्त्रं निद-ध्यादापूयदर्शनात् सकृदेवापहरेच्छस्त्रमाशु च ।महत्स्वपि च पाकेषु द्ब्यङ्गुलं त्र्यङ्गुलं बा शस्त्र-पदमुक्तम् । तत्रायतो विशालः समः सुविभक्तइति ब्रणगुणाः । भवतश्चात्र ।“आयतश्च विशालश्च सुविभक्तो निराश्रयः ।प्राप्तकालकृतश्चापि व्रणः कर्म्मणि शस्यते ॥
शौर्य्यमाशु क्रिया शस्त्रतैक्ष्ण्यकस्वेदवेपथू ।असंमोहश्च वैद्यस्य शस्त्रकर्म्मणि शस्यते ॥
”एकेन वा व्रणेनाशुष्यमाणेनान्तराबुद्ध्यावेक्ष्यअपरान् व्रणान् कुर्य्यात् । भवन्ति चात्र ।“यतो यतो गतिं विद्यादुत्सङ्गो यत्र यत्र च ।तत्र तत्र व्रणं कुर्य्याद्यथा दोषो न तिष्ठति ॥
”तत्र भ्रूगण्डशङ्खललाटाक्षिपुटोष्ठदन्तवेष्टकक्षा-कुक्षिवङ्क्षणेषु तिर्य्यक्छेद उक्तः ॥
“चन्द्रमण्डलवच्छेदान् पाणिपादेषु कारयेत् ।अर्द्धचन्द्राकृतींश्चापि गुदे मेढ्रे च बुद्धिमान् ॥
”अन्यथा तु शिरास्नायुच्छेदनादतिमात्रं वेदनाचिराद्व्रणसंरोहो मांसकन्दी प्रादुर्भावश्चेति ।मूढगर्भोदरार्शोऽश्मरीभगन्दरमुखरोगेष्वभुक्त-वतः कर्म्म कूर्व्वीत । ततः शस्त्रमवतार्य्य शीता-भिरद्भिरातुरमाश्वास्य समन्तात् परिपीड्या-ङ्गुल्या व्रणमभिमृज्य प्रक्षाल्य कषायेण प्लोते-नोदकमादाय तिलकल्कमधुसर्पिःप्रगाढामौषध-युक्तां वर्त्तिं प्रणिदध्यात् । ततः कल्केनाच्छाद्यनातिस्निग्धां नातिरूक्षां नातिघनां कवलिकांदत्त्वा वस्त्रपट्टेन बध्नीयाद्वेदनारक्षोघ्नैर्धूपैर्धूपये-द्रक्षाघ्नैश्च मन्त्रै रक्षां कुर्व्वीत । ततो गुग्गुल्व-गुरुसर्ज्जरसवचागौरसर्षपचूर्णैर्लवणनिम्बपत्रव्यामिश्रैराज्ययुक्तैधूपैर्धूपयेत् । आज्यशेषेण चास्यप्राणान् समालभेत । उदकुम्भाच्चापो गृहीत्वाप्रोक्षयन् रक्षाकर्म्म कुर्य्यात्तद्वक्ष्यामः ॥
* ॥
“कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च ।रक्षाकर्म्म करिष्यामि ब्रह्मा तदनुमन्यताम् ॥
नागाः पिशाचा गन्धर्व्वाः पितरो यक्षराक्षसाः ।अभिद्रवन्ति ये ये त्वां ब्रह्माद्या घ्नन्तु तान् सदा ॥
पृथिव्यामन्तरीक्षे च ये चरन्ति निशाचराः ।दिक्षु वास्तुनिवासाश्च पान्तु त्वां ते नमस्कृताः ।पान्तु त्वां मुनयो ब्राह्म्या दिव्या राजर्षयस्तथा ।पर्व्वताश्चैव नद्यश्च सर्व्वाः सर्व्वेऽपि सागराः ॥
अग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च ॥
सोमो व्यानमपानं ते पर्य्यण्यः परिरक्षतु ॥
उदानं विद्युतः पान्तु समान स्तनयित्नवः ।बलमिन्द्रो बलपतिर्मनुर्मन्ये मतिं तथा ॥
कामांस्ते पान्तु गन्धर्व्वाः सत्त्वमिन्द्रोऽभिरक्षतु ।प्रज्ञां ते वरुणो राजा समुद्रो नाभिमण्डलम् ॥
चक्षुः सूर्य्यो दिशः श्रोत्रे चन्द्रमाः पातु ते मनः ।नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव ॥
रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा ।आकाशं स्वानि ते पातु देहं तव वसुन्धरा ॥
वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम् ।पौरुषं पुरुषश्रेष्ठो ब्रह्मात्मानं ध्रुवो भ्रुवौ ॥
एता देहे विशेषेण तव नित्या हि देवताः ।एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ॥
स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्व्व-ताम् ।स्वस्ति ते चन्द्रसूर्य्यौ च स्वस्ति नारदपर्व्वतौ ॥
स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्रगाः ।पितामहकृता रक्षा स्वस्त्यायुर्व्वर्द्धतां तव ।ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ॥
”इति स्वाहा ॥
“एतैर्व्वेदात्मकैर्मन्त्रैः कृत्या व्याधिविनाशनैः ।मयैवं कृतरक्षस्त्वं दीर्घमायुरवाप्नुहि ॥
” * ॥
ततः कृतरक्षमातुरमागारं प्रवेश्याचारिक-मादिशेत् । ततस्तृतीयेऽहनि विमुच्यैवं बध्नी-याद्बस्त्रपट्टेन । न चैनं त्वरमाणोऽपरेद्युर्मोक्ष-येत् । द्बितीयदिवसे परिमोक्षणाद्विग्रथितोव्रणश्चिरादुपसंरोहति तीव्ररुजश्च भवति । अतऊर्द्ध्वं दोषकालबलादीनवेक्ष्य कषायालेपनबन्धा-हाराचारान् विदध्यात् । न चैनं त्वरमाणःसान्तर्दोषं रोपयेत् स ह्यल्पेनाप्यपचारेणाभ्य-न्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति । भवन्तिचात्र ।“तस्मादन्तर्व्वहिश्चैव सुशुद्धं रोपयेद्व्रणम् ।रूढेऽप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत् ॥
हर्षं क्रोधं भयञ्चापि यावदास्थैर्य्यसम्भवात् ।मासान् षट् सप्त वा नॄणां विधिरेषः प्रशस्यते ॥
हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् ।त्र्यहात् द्ब्यहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धि-मान् ॥
अतिपातेषु रोगेषु नेच्छेद्विधिमिमं भिषक् ।प्रदीप्तागारवच्छिघ्रं तत्र कुर्य्यात् प्रतिक्रियाम् ॥
या वेदना शस्त्रनिपातजातातीव्रा शरीरं प्रदुनोति जन्तोः ।घृतेन सा शान्तिमुपैति सिक्ताकोष्णेन यष्टीमधुकान्वितेन ॥
”इति सुश्रुते ५ अध्यायः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
