| YouTube Channel

शसु (zasu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
शस्
मूलधातुः:
शसु
धात्वर्थः:
हिंसायाम्
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
शसति
धातुप्रदीपः
Sanskrit
शसुँ शसु हिंसायाम्
- शसति विशशास विशशसतुः विशशसुः विशशसिथ शसददवादिगुणानाम् (6/4/126) इत्येत्वाभ्यासलोपप्रतिषेधः तकिशसि (3/1/97) इति यत्-शस्यम् शस्रम् हन्त्यर्थाश्चेति चुरादिगणसूत्रत् णिच्-शासयति शास्यम् ।। 728 ।।
क्षीरतरङ्गिणी
Sanskrit
शसुँ शसु हिंसार्थः
-शसति शसददवादि (64126) इत्येत्वाभ्यासलोपौ स्तः शशसतुः शशसुः ह्म्यन्तक्षणशस (तु0 725) इत्यशसीत् शस्त्वा, शसित्वा घृषशसी वैयात्ये (तु0 7219) अनिट्-विशस्तः, अन्यत्र विशसितः दाम्नीशसु (तु0 32182) इति ष्ट्रन्-शस्त्रम् विशसिता उणादौ शस्ता 708
धातुवृत्तिः
Sanskrit
शसुँ शसु (अर्थः) हिंसायाम्
दन्त्योष्मान्तः ( शसति शशस शशसतुः ) "न शस''इत्येत्वाभ्यासलोपनिषेधः शस्यतेनेनेति (शस्त्म्) "दाम्रीशस'' इति करणे ष्ट्रन् षित्त्वात् स्त्रियां (शस्त्री शस्यम् ) "तकिशसि'' इत्यादिना यत् शंस्यमिति "ह(1 ) ( 1 ) एतच्चुरादावुपलब्धपुस्तकद्वये ऽपि नोपलब्धमिति तत्रत्यटिप्पन्यां लिखितम् न्त्यर्थाश्च'' इति चुरादिपाठात् स्वाथे णौ यति ( शसित्वा शस्त्वा ) उदित्त्वादिङ्विकल्पः ( शस्तो वृषलः विनीत इत्यर्थः "घृषिशसी वैयात्ये'' धृषिशसी यदा वैयात्यविषयौ तदैवैताभ्यां पराया निष्ठाया इडभाव इति नियमादन्यत्र (विशसित) इति भवति विशसितुर्धर्म्यं (वैशस्त्रम् ) ( 1 ) ( 1 ) एतच्चरादावुपलब्धपुस्तकद्वये ऽपि नोपलब्धमिति तत्रत्यटिप्पन्यां लिखितम् ऋतोः इति षष्ठ्यन्ताद्धर्म्यमित्वर्थेऽङ्प्रत्ययः तत्र [विशसितुरिड्लोपश्च] इति वचनादिह्लोपः आशंसत इतीच्छायां गतः 713
कृदन्तरूपमाला
Sanskrit
1 {@“शसु हिंसायाम्”@} 2 ‘हिंसायां शसति--’ 3 इति देवः।
‘--वधे’ इति बोपदेवः।
4 क्वसौ-शशसिवान्, क्त्वायाम्- 5 शसित्वा-शस्त्वा, 6 विशस्तः-विशसितः, 7 शस्त्रम्- शस्त्री, 8 विशसिता-वैशस्त्रम्, 9 10 शस्यम्-शास्यम् इति विशेषः।
इतराणि सर्वाण्यपि रूपाणि भौवादिककसतिवत् 11 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१६९८)
02
=>
(१-भ्वादिः-७२७। सक। सेट्। पर।)
03
=>
(श्लो। १८४)
04
=>
[[२। लिटः क्वसौ, ‘न शस--’ (६-४-१२६) इत्यादिना एत्वाभ्यासलोपनिषेधः।]]
05
=>
[[३। उदित्त्वेन क्त्वायामिड्विकल्पः
\n\n तेन रूपद्वयम्।]]
06
=>
[[४। ‘धृषिशसी वैयात्ये’ (७-२-१९) इति वैयात्ये (= अविनीते) अर्थे एव ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः
\n\n इति नियमात् ‘शस्तो वृषलः’ इत्यविनी- तार्थ एवेण्निषेधः। ‘विशसितः पशुः’ इत्यत्र न।]]
07
=>
[[५। ‘दाम्नीशस--’ (३-२-१८२) इत्यादिना करणे ष्ट्रन्प्रत्ययः। षित्त्वात् स्त्रियां ङीष्।]]
08
=>
[[६। ताच्छीलिकः ‘तृन्’ (३-२-१३५) इति तृन्प्रत्ययः। विशसितुर्धर्म्यं इत्यर्थे ‘विशसितुरिड्लोपश्च’ (वा। ४-४-४९) इतीड्लोपसंयोगशिष्टोऽञ्प्रत्ययः। आदि- वृद्धिः।]]
09
=>
[पृष्ठम्१२९२+ ३१]
10
=>
[[१। ‘तकिशसि--’ (वा। ३-१-९७) इति ण्यदपवादो यत्प्रत्ययः। शास्यम् इति तु ‘हन्त्यर्थाश्च’ (ग। सू। चुरादौ) इति वचनात् स्वार्थे णौ, णिजन्ताद्यति बोध्यम्।]]
11
=>
(१८०)