| YouTube Channel

शशाण्डुलिः (zazANDuliH)

 
शब्दकल्पद्रुमः
Sanskrit
शशाण्डुलिः,
स्त्री,
कर्कटीभेदः तत्पर्य्यायः बहु-फला तण्डुली क्षेत्रसम्भवा क्षुद्राम्ला ५लोमशफला धूम्रा वृत्तफला अस्यागुणाः ।“शशाण्डुलि स्तिक्तकटुश्च कोमलाकट्वम्लयुक्ता मधुरा कफापहा ।पाके तु साम्ला मधुरा विदाहकृत्कफे तु शुष्का रुचिकृच्च दीपनी
”इति राजनिर्घण्टः