| YouTube Channel

शलाकापुरुषाः (zalAkApuruSAH)

 
Apte Hindi
Hindi
शलाकापुरुषाः
पुं*
शलाका-पुरुषाः -
६३ दिव्य जैन
शब्दकल्पद्रुमः
Sanskrit
शलाकापुरुषाः,
पुं,
बौद्धानां त्रिषष्टिदैवपुरुषाः ।तत्र द्बादश चक्रवर्त्तिनः चतुर्व्विंशतिर्जिनाः ।नव वासुदेवाः नव बलदेवाः नव प्रति-वासुदेवाश्च यथा, --“यः सर्व्वमण्डलस्येशो राजसूयञ्च योऽयजत् ।चक्रवर्त्ती सार्व्वभौमस्ते तु द्बादश भारते
आर्षभिर्भरतस्तत्र सगरस्तु सुमित्रभूः ।मघवा वैजयिरथाश्वसेननृपनन्दनः
सनत्कुमारोऽथ शान्तिकुन्थुररोजिना अपि ।शुभूमस्तु कार्त्तवीर्य्यः पद्मः पद्मोत्तरात्मजः
हरिषेणो हरिसुतो जयो विजयनन्दनः ।ब्रह्मसूनुर्ब्र ह्मदत्तः सर्व्वे चेक्ष्वाकुवंशजाः
प्राजापत्यस्त्रिपृष्ठोऽथ द्बिपृष्ठो ब्रह्मसम्भवः ।स्वयम्भू रुद्रतनयः सोमभूः पुरुषोत्तमः
शैविः पुरुषसिंहोऽथ महासीरः समुद्भवः ।स्यात् पुरुषपुण्डरीकौ दत्तोऽग्निः सिंहनन्दनः
नारायणो दाशरथिः कृष्णस्तु वसुदेवभूः ।वासुदेवा अमी कृष्ण नव शुक्ला बलास्त्वमी
अचलो विजयो भद्रः सुप्रभश्च सुदर्शनः ।आनन्दो नन्दनः पद्मो रामो विष्णुद्विषस्त्वमी
अश्वग्रीवस्तारकश्च मेरको मधुरेव ।निशुम्भवलिप्रह्लादलङ्केशमगधेश्वराः ।जिनः सह त्रिषष्टिः स्युः शलाकापुरुषा अमी
”इति हेमचन्द्रः