| YouTube Channel

शर्म्मा (zarmmA)

 
शब्दकल्पद्रुमः
Sanskrit
शर्म्मा, [न्]
पुं,
(शृणात्यशुभमिति शॄ + “सर्व्व-धातुभ्यो मनिन् ।” उणा० १४४ इतिमनिन् ।) ब्राह्मणस्योपाधिविशेषः यथा, --“शर्म्मन्नर्घ्यादिके कार्य्यं शर्म्मा तर्पणकर्म्मणि ।शर्म्मणोऽक्षय्यकाले पितॄणां दत्तमक्षयम्
”शर्म्मन्नित्यनेन गोत्रसम्बन्धनामानि पितणां परि-कल्पयन्नित्येकवाक्यतया शर्म्मान्तं नाम प्रतीयते ।तथा विष्णुपुराणम् ।“ततश्च नाम कुर्व्वीत पितैव दशमेऽहनि ।देवपूर्व्वं नराख्यं हि शर्म्मवर्म्मादिसंयुतम्
”देवात् पूर्व्वं नराख्यं नरनाम तच्च विशिष्टं शर्म्म-युतम् एतच्च विप्रपरम् ।“शर्म्मा देवश्च विप्रस्य वर्म्म त्राता त्त भूभुजः ।भूतिर्दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत्
”इति यमवचनात्
अत्र चकारेण देवशर्म्मणोः समुच्चयः अत्रापिशर्म्माद्यन्ततामाह शातातपः
“शर्म्मान्तं ब्राह्मणस्य स्याद्वर्म्मान्तं क्षत्त्रियस्य ।धनान्तञ्चैव वैश्यस्य दासान्तं चान्त्यजन्मनः
”इति श्राद्धतत्त्वम्
(तथा विष्णुपुराणे १० -- ।“ततश्च नाम कुर्व्वीत पितैव दशमेऽहनि ।देवपूर्व्वं नराख्यं हि शर्म्मवर्म्मादिसंयुतम्
शर्म्मेति ब्राह्मणस्योक्तं वर्म्मेति क्षत्त्रसंश्रयम् ।गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः
”“दशमेऽहनि अतीते इति शेषः तच्चाशौ-चान्तोपलक्षणम् अत्रैव कालान्तरमप्याह ।यथा, --‘नामधेयं दशम्याञ्च केचिदिच्छन्ति पार्थिव ।द्बादश्यामथवा रात्र्यां मासे पूर्णे तथापरे
’इति
देवपूर्व्वं कुलदेवतानामपूर्व्वकं कुलदेवतासम्बन्धंनाम कुर्य्यात् इति शङ्खोक्तेः नराख्यं पुरुषवाच-कम् तत्र प्रान्त शर्म्मवर्म्मादिसंयुतम् यथा, सोमशर्म्मा इन्द्रवर्म्मा चन्द्रवर्म्मा चन्द्रगुप्तःशिवदासः इत्यादि ।” इति तट्टीकायां स्वामी
“तत्रादौ नाम निर्णयः ।‘शर्म्मेति ब्राह्मणस्योक्तं वर्म्मेति क्षत्त्रसंश्रयम् ।गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः
”इत्यत्रेति पदस्वरसेन यद्यपि शर्म्मपदात्मकमेवनामावगम्यते तथापि तावन्मात्रं नाम किन्तुतद्वन्नामेति निर्णीयते द्ब्यक्षरं चतुरक्षरं इत्यादिगृह्यदर्शनात् एवञ्च हरिशर्म्मा नारायण-शर्म्मेत्यादि सिध्यति शर्म्मपदमात्रात्मकत्वात् त-न्नाम्नश्चतुरक्षरता स्यादेव तथाच नारा-यणादिपदशर्म्मपदाभ्यां निर्णीतमेव नाम द्व्यक्ष-रादिकन्तु शर्म्मपूर्व्वप्रतीकमात्रमेव अतएवदानादौ नामोच्चारणे चैत्रशर्म्मणे इत्येवश्रूयते गोभिलः ।‘शर्म्मन्नर्घ्यादिके कार्य्यं शर्म्मा तर्पणकर्म्मणि ।शर्म्मणोऽक्षय्यकाले स्यादेवं कुर्व्वन्न मुह्यति
’इदमप्युत्तरप्रतीकमात्रपरमुक्तगृह्येन सहैकमूल-त्वात् एतेन शर्म्म सुखनीयमिति कर्कदर्शनात् ।शर्म्मपदमर्थपरं तेन शुभङ्करेत्याद्येव नामेत्यपास्तंगोभिलविरोधात् कर्कन्तु पूर्व्वप्रतीकमात्रपरम् ।तेन शुभङ्करशर्म्मा भीमशर्म्मेत्यादि सिध्यति एवञ्चहव्यकव्ये चैतादृशमेव नाम तेषां प्रयोज्यम् ।अपवादकाभावादिति अत्रैव मनुः ।‘मङ्गल्यंब्राह्मणस्य स्यात् क्षत्त्रियस्य बलान्वितम् ।वैशस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम्
शर्म्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् ।स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थं मनोहरम् ।मङ्गल्यं दीर्घवर्णान्तमाशीर्व्वादाभिधानवत्
’शर्म्मवर्म्मप्रभृतीनि उत्तरपदानि कार्य्याणीतिमनुटीकापि स्त्रीनाम तु यशोदादेवीत्यादिस्त्रीणां दान्तमित्यपि पूर्व्वप्रतीकमात्रपरम् ।वैश्यस्य गुप्तान्तमिति तु पराशरः एवञ्चदानादौ चैत्रशर्म्मणे ब्राह्मणायेत्यादि स्वरूपंवाक्यम्
इति द्वैतनिर्णयः
*
)