| YouTube Channel

शर्म्म (zarmma)

 
शब्दकल्पद्रुमः
Sanskrit
शर्म्म, [न्]
क्ली,
(शॄ + “सर्व्वधातुभ्यो मनिन् ।”उणा० १४४ इति मनिन् ।) सुखम् ।इत्यमरः
(यथा, ऋग्वेदे २५ ।“तस्मा अग्निर्भारतः शर्म्म यं सत् ।”“शर्म्म सुखम् ।” इति तद्भाष्ये सायणः
यथाचकथासरित्सागरे ७८ ४९ ।“स्वामिभक्तस्तदेतस्य शर्म्मोपायमिमं शृणु
”)तद्वति, त्रि
गृहम् इति निघण्टुः
यथाच ऋग्वेदे १३ ।“स नः शर्म्माणि वीतयेऽग्निर्यच्छतु शन्तमा ।”“शर्म्माणि शर्म्मशब्दो गृहवाची छाया शर्म्मेतितन्नामसु पाठात् ।” इति तद्भाष्ये सायणः
)