| YouTube Channel

शर्द्धः (zarddhaH)

 
शब्दकल्पद्रुमः
Sanskrit
शर्द्धः,
पुं,
(शृधु शब्दकुत्सायाञ्च + घञ् ।) अपा-नोत्सर्गः शृधधातोर्घञ्प्रत्ययेन निष्पन्नमेतत्
(तेजः यथा, ऋग्वेदे १२ ।“प्र शर्द्ध आर्त्त प्रथमं विपन्या
”“शर्द्धस्तेजः ।” इति तद्भाष्ये सायणः
समूहः यथा, तत्रैव ६४ ।“वृष्णे शर्द्धाय सुमखाय वेधसे ।”“शर्द्धाय समूहाय ।” इति तद्भाष्ये सायणः
प्रसहनशीले, त्रि यथा, तत्रैव ३७ ।“प्रवः शर्द्धाय घृष्वये त्वेष द्युम्नाय शुष्मिणे ।”“शर्द्धाय प्रसहनशीलाय ।” इति तद्भाष्ये सायणः
)