| YouTube Channel

शर्करोदकं (zarkarodakaM)

 
शब्दकल्पद्रुमः
Sanskrit
शर्करोदकं,
क्ली,
(शर्करायुक्तमुदकम् ।) शर्करा-युक्तजलम् चिनिरपाना इति शरवत् इति चभाषा यथा, --“जलेन शीतलेनैव घोलिता शुभ्रशर्करा ।एलालवङ्गकर्पूरमरिचैश्च समन्विता
शर्करोदकनाम्नैतत् प्रसिद्धं विदुषां मुखे ।शर्करोदकमाख्यातं शुक्रलं शिशिरं सरम्
बल्यं रुच्यं लघु स्वादु वातपित्तास्रनाशनम् ।मूर्च्छाच्छर्द्दितृषादाहज्वरशान्तिकरं परम्
”इति भावप्रकाशः