| YouTube Channel

शर्करासप्तमी (zarkarAsaptamI)

 
Spoken Sanskrit
English
शर्करासप्तमी - zarkarAsaptamI -
f.
- particular observance on the 7th day of the light half of the month vaizAkha
Monier Williams Cologne
English
शर्करा—सप्तमी
f.
a partic. observance on the 7th day of the light half of the month Vaiśākha,
Cat.
Apte Hindi
Hindi
शर्करासप्तमी
स्त्री*
शर्करा-सप्तमी -
वैशाख शुक्ला सप्तमी के दिन मनाया जाने वाला अनुष्ठान
शब्दकल्पद्रुमः
Sanskrit
शर्करासप्तमी,
स्त्री,
(शर्क्कराया दानविधायिकासप्तमी ।) वैशाखीशुक्ला सप्तमी तत्र व्रतविधि-र्यथा, --ईश्वर उवाच ।“शर्करासप्तमीं वक्ष्ये तद्वत् कल्मषनाशिनीम् ।आयुरारोग्यमैश्वर्य्यं ययानन्तं प्रजायते
माधवस्य सिते पक्षे सप्तम्यां शुक्लपक्षतः
प्रातः स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानु-लेपनैः
स्थण्डिले पद्ममालिख्यं कुङ्कुमेन सकर्णिकम् ।तस्मै नमः सवित्रे तु गन्धपुष्पं निवेदयेत्
स्थापयेदुदकुम्भञ्च शर्करापात्रसंयुतम् ।शुक्लवस्त्रैरलंकृत्य शुक्लमाल्यानुलेपनैः ।सुवर्णाश्वसमायुक्तं मन्त्रेणानेन पूजयेत्
विश्ववेदमयो यस्मात् वेदवादीति पठ्यते ।त्वमेवामृतसर्व्वस्वमतः कान्तिं प्रयच्छ मे
पञ्चगव्यं ततः पीत्वा स्वपेत्तत् पार्श्वतः क्षितौ ।सौरसूक्तं स्मरन्नास्ते पुराणश्रवणेन
अहोरात्रे गते पश्चात् अष्टम्यां कृतनैत्यिकः ।तत् सर्व्वं वेदविदुषे ब्राह्मणाय निवेदयेत्
भोजयेच्छक्तितो विप्रान् शर्कराघृतपायसैः ।भुञ्जीतातैललवणं स्वयमप्यथ वाग्यतः
अनेन विधिना सर्व्वं मासि मासि समाचरेत्
संवत्सरान्ते शयनं शर्कराकलसान्वितम् ।सर्व्वोपस्करसंयुक्तं तथैकां गां पयस्विनीम्
गृहञ्च शक्तितो दद्यात् समस्तोपस्करान्वितम् ।सहस्रेणाथ निष्काणां कृत्वा दद्यात् शतेन वा
दशभिर्व्वाथ निष्काणां तदर्द्धेनाथ शक्तितः ।सुवर्णाश्वः प्रदातव्यः पूर्व्ववन्मन्त्रवाचनम्
वित्तशाठ्यं कुर्वीत कुर्व्वन् दोषं समश्नुते ।अमृतं पिबतो वक्त्रात् सूर्य्यस्यामृतबिन्दवः
निपेतुर्ये तदुत्थामी शालिमुद्गेक्षवः स्मृताः ।शर्करापरमस्तस्मादिक्षुसारोऽमृतात्मकः
इष्टा रवेरतः पुण्या शर्कराहव्यकव्ययोः ।शर्करासप्तमी चैषा वाजपेयफलप्रदा
सर्व्वदुःखोपशमनीं पुत्त्रसन्ततिवर्द्धनीम् ।यः कुर्य्यात् परया भक्त्या परं ब्रह्म गच्छति ।कल्पमेकं वसेत् स्वर्गे ततो याति महत् पदम्
इदमनघं शृणोतियः स्मरेद्बापरिपठतीह दिवाकरस्य लोके ।मतिमपि ददाति सोऽपिदैवैरमरबधूजनमालया पूज्यः
”इति मात्स्ये ७२ अध्यायः
वाचस्पत्यम्
Sanskrit
शर्करासप्तमी स्त्री वैशाखशुक्लपक्षसप्तम्याम् तद्विधानंमत्स्यपु० ७२ अ० उक्तं यथा “शर्करासप्तमीं वक्ष्ये तद्वत्कल्मषनाशिनोम् आयुरारोग्यमैश्वर्त्यं यथानन्तं प्रजा-यते माधवस्य सिते पक्षे सप्तम्यां शुक्लपक्षतः प्रातः-स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानुलेपनैः स्यण्डिलेपद्मभालिख्य कुङ्कुमेन सकर्णिकम् तस्मै नमः सवित्रेतु गन्धपुष्पं निवेदयेत्” इत्यादि