| YouTube Channel

शर्करार्व्वुदः (zarkarArvvudaH)

 
शब्दकल्पद्रुमः
Sanskrit
शर्करार्व्वुदः,
पुं,
क्ली,
(शर्क्करावदर्व्वुदः ।) क्षुद्ररोग-विशेषः तल्लक्षणं यथा, --“प्राप्य मांसं शिराः स्नायुं मेदः श्लेष्मा तथानिलः ।ग्रन्थिं करोत्यसौ भिन्नो मधुसर्पिर्व्वसानिभम्
स्रवत्यास्रावमत्यर्थं तत्र वृद्धिं गतोऽनिलः ।मांसं विशोष्य ग्रथितां शर्क्करां जनयत्यतः
दुर्गन्धक्लिन्नमत्यर्थं नानावर्णं ततः शिराः ।श्रवन्ति सहसा रक्तं तं विन्द्याच्छर्करार्व्वुदम्
”शर्करा बालुकातुल्या तच्चिकित्सा यथा, --“मेरोऽर्व्वुदविधानेन साधयेच्छर्करार्व्वुदम्
”इति भावप्रकाशः