| YouTube Channel

शर्कराधेनु (zarkarAdhenu)

 
Monier Williams Cologne
English
शर्करा—धेनु
f.
a gift of sugar moulded in the shape of a cow, ib.
शब्दकल्पद्रुमः
Sanskrit
शर्कराधेनुः,
स्त्री,
(शर्क्कराभिर्निर्म्मिता धेनुः ।)दानार्थशर्करानिर्म्मितधेनुः तद्बिधिर्यथा, --श्रीहोतोवाच ।“तद्वत्स शर्कराधेनुं शृणु राजन् यथार्थतः ।अनुलिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे
धेनुं शर्करया राजन् कृत्वा भारचतुष्टयम् ।उत्तमा कथ्यते सद्भिश्चतुर्थांशेन वत्सकम्
तदर्द्धं मध्यमा प्रोक्ता कनिष्ठा भारकेण तु ।तद्वत् वत्सं प्रकुर्व्वीत चतुर्थांशेन तत्त्वतः
अथ कुर्य्यादष्टशतैरूर्द्धं नृपतिसत्तम ।स्वशक्त्यां कारयेद्धेनुं यथात्मानं पीडयेत्
सर्व्वबीजानि संस्थाप्य चतुर्दिक्षु समन्ततः ।सौवर्णमुखशृङ्गाणि मौक्तिकानयने तथा
गुडेन तु मुखं कार्य्यं जिह्वा पिष्टमयी तथा ।कम्बलं पट्टसूत्रेण कण्ठाभरणभूषितम्
इक्षुपादां रौप्यखुरां नवनीतमयस्तनीम् ।प्रशस्तपत्रश्रवणां सितचामरमूषिताम्
पञ्चरत्नसमायुक्तां वस्त्रैराच्छादितां तथा ।गन्धपुष्पैरलंकृत्य ब्राह्मणाय कुटुम्बिने
श्रोत्रियाय दरिद्राय साधुवृत्ताय धीमते ।वेदवेदाङ्गविदुषे आहिताग्नेर्विशेषतः ।अदुष्टाय प्रदातव्या तु मत्सरिणे नृप
अयने विषुवे पुण्ये व्यतीपाते शशिक्षये ।एषु पुण्येषु कालेषु यदृच्छा वा सदार्पयेत्
सत्पात्रन्तु द्विजं दृष्ट्वा आगतं श्रोत्रियं गृहे ।तादृशाय प्रदातव्या पुच्छदेशे विगृह्य
पूर्व्वाभिभुखमास्थाय अथवा उदङ्मुखः ।गां पूर्व्वाभिमुखीं कृत्वा वत्समुत्तरतो न्यसेत्
दानकाले तु ये मन्त्रास्तान् पठित्वा समर्पयेत् ।संपूज्य विधिवद्विप्रं मुद्रिकाकर्णभूषणः
स्वशक्त्या दक्षिणां दत्त्वा वित्तशाठ्यविवर्जितः ।हस्ते तु दक्षिणां दत्त्वा गन्धपुष्पसचन्दनाम्
धेनुं समर्पयेत्तस्य मुखञ्च विलोकयेत् ।एकाहं शर्कराहारो ब्राह्मणस्त्रिदिनं वसेत्
सर्व्वपापहरा धेनुः सर्व्वकामप्रदायिनी ।सर्व्वकामसमृद्धस्तु जायते नात्र संशयः ।दीयमानां प्रशंसन्ति ते यान्ति परमां गतिम्
इदं शृणुयाद्भक्त्या पठते वापि मानवः ।मुच्यते सर्व्वपापेभ्यो विष्णुलोकं गच्छति
”इति वाराहे शर्कराधेनुमाहात्म्यनामाध्यायः
वाचस्पत्यम्
Sanskrit
शर्कराधेनु स्त्री दानार्थं कल्पिते शर्कराकृते धेन्वाकारे स्तूप-भेदे हेमा० दा० स्कन्दपुराणोक्तस्तद्विधिर्यथा“तद्वच्च शर्कराधेनुं राजन्! कुर्य्यात् यथार्थतः अनु-लिप्ते महीपृष्ठे कृष्णाजिनकुशोत्तरे धेनुः शर्करयाराजन्! सदा भारचतुष्टयम् उत्तमा कथ्यते सद्भि-श्चतुर्थांशेन वत्सकः तदर्द्धं मध्यमा प्रोक्ता चतुर्थांशेनकन्यसा तद्वद्वत्सं प्रकुर्वीत चतुर्थांशेन मानवः ।अथ वा धेनुतः कुर्य्यादष्टांशेन तु वत्सकम् स्वशक्त्याकारयेद्धेनुं यथात्मानं पीडयेत् सर्ववीजानि सं-स्थाप्य चतुर्दिक्षु समन्ततः सौवर्णमुखशृङ्गाणि मौ-क्तिकैर्नयनानि गुडेन मुखं कार्य्यं जिह्वापिष्टमयी तथा कम्बलं पट्टसूत्रेण घण्टाभरणभूषिता ।इक्षुपादा रौप्यखुरा नवनीतमयस्तना प्रशस्तपत्रश्रवणासितचामरभूषिता पञ्चरत्नसमायुक्ता दर्भरोमसमन्विता ।कांस्योपदोहना सम्यक् गन्धपुष्पेः समन्विता ईदृक्विधानसंयुक्तां वस्त्रैराच्छादितां तथा गन्धपुष्पैरलंकृत्यब्राह्मणाय निवेदयेत्”