| YouTube Channel

शर्कराचल (zarkarAcala)

 
Monier Williams Cologne
English
शर्करा°चल (°राच्°),
m.
‘sugar-hill’, a sugar-loaf (shaped like a conical hill),
Cat.
शब्दकल्पद्रुमः
Sanskrit
शर्कराचलः,
पुं,
(शर्करामयोऽचलः ।) दानार्थ-कृत्रिमशर्करामयाचलविशेषः अस्य विवरणंपर्व्वतशब्दे द्रष्टव्यम्
वाचस्पत्यम्
Sanskrit
शर्कराचल
पु०
दानार्थं कल्पिते शर्कराकृते पर्वते ।तद्विधिः हेमा० दा० पद्मपुराणे उक्तो यथा“अथातः संप्रवक्ष्यामि शर्कराचलमुत्तमम् यस्य प्रदा-नाद्विष्ण्वर्करुद्रास्तुष्यन्ति सर्वदा अष्टभिः शर्करामारैरुत्तमः स्यान्महाचलः चतुर्भिर्मध्यमः प्रोक्तो भारा-भ्यामधरः स्मृतः भारेण बार्द्धभारेण कुर्य्याद् यःस्वल्पवित्तवान् विष्कम्भपर्वतान् कुर्य्यात् तुरीयांशेनमानवः धान्यपर्वतवत्सर्वमासाद्यामरसंयुतम् मेरो-रुपरि तद्वच्च स्थाप्य हेमतरुत्रयम् मन्दारः पारिजा-तश्च तृतीयः कल्पपादपः एतद्वृक्षत्रयं मूर्ध्नि सर्वे-ष्वपि निवेशयेत् हरिचन्दनसन्तानौ पूर्वपश्चिम-भागयोः निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले ।मन्दारे कामदेवश्च प्रत्यग्वक्त्रः सदा भवेत् गन्धमादन-शृङ्गे धनदः स्यादुदङ्मुखः प्राङ्मुखो वेदमूर्त्तिश्चहंसः स्याद्विपुलाचले हैमी सुपार्श्वे सुरभी दक्षिणा-भिमुखी भवेत् धान्यपर्वतवत् सर्वमावाहनमखादिकम्”