| YouTube Channel

शरीरी (zarIrI)

 
Wordnet
Sanskrit
Synonyms:
प्राणी, चेतनः, जन्मी, जन्तुः, जन्युः, शरीरी, जीवः
noun
प्राणविशिष्टः।
"अस्मिन् विश्वे नैके प्राणिनः सन्ति।"
Synonyms:
प्राणी, जन्तुः, चेतनः, जीवी, जन्मी, शरीरी, पशुः, तिर्यङ्
noun
यस्मिन् प्राणाः सन्ति।
"पृथिव्यां नैके प्राणिनः सन्ति। / कर्मात्मनाञ्च देवानां सः असृजत् प्राणिनां प्रभुः।साध्यानाञ्च गणं सूक्ष्मं यज्ञञ्चैव सनातनम्।"
शब्दकल्पद्रुमः
Sanskrit
शरीरी [न्]
पुं,
(शरीरमस्यास्तीति शरीर +इनिः ।) शरीरविशिष्टः तत्पर्य्यायः ।“भवोद्भवौ प्राणी तु शरीरिजन्युजन्तवः ।प्राणभृच्चेतनो जन्मी चित्तन्तु हृदयं मनः
”इति जटाधरः
शरीरिलक्षणं यथा, --“गर्माशयगतं शुक्रमार्त्तवं जीवसंज्ञकः ।प्रकृतिः सविकारा तत् सर्व्वं गर्भसंज्ञकम्
कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः ।भवेत्तदा मुनिभिः शरीरीति निगद्यते
”अङ्गोपाङ्गसंयुतः व्यक्ताङ्गोपाङ्गः ।“तस्य त्वङ्गान्युपाङ्गानि ज्ञात्वा सुश्रुतशास्त्रतः ।मस्तकादभिधीयन्ते शिष्याः शृणुत यत्नतः
आद्यमङ्गं शिरः प्रोक्तं तदुपाङ्गानि कुन्तलाः ।तस्यान्तर्मस्तुलुङ्गश्च ललाटभ्रूयुगं तथा
नेत्रद्वयं तयोरन्तर्व्वर्त्तते द्बे कणीनिके ।दृष्टिद्वयं कृष्णगोलौ श्वेतभागौ वर्त्मनि
पक्ष्माण्यपाङ्गौ शङ्खौ कर्णौ तच्छस्कुलीद्बयम् ।पाणिद्वयं कपोलौ नासिका प्रकीर्त्तिता
ओष्ठाधरौ सृक्कण्यौ मुखं तालु हनुद्वयम् ।दन्ताश्च दन्तवेष्टाश्च रसना चिवुकं गलः
द्वितीयमङ्गं ग्रीवा तु यया मूर्द्धा विधार्य्यते ।तृतीयं बाहुयुगलं तदुपाङ्गान्यथो ब्रुवे
तस्योपरि मतौ स्कन्धौ प्रगण्डौ भवतस्त्वधः ।कफोणियुग्मं तदधः प्रकोष्ठयुगलं तथा
मणिबन्धौ तले हस्तौ तयोश्चाङ्गुलयो दश ।नखाश्च दश ते स्थाप्या दश च्छेद्याः प्रकीर्त्तिताः
चतुर्थमङ्गं वक्षस्तु तदुपाङ्गान्यथ व्रुवे ।स्तनौ पुंसस्तथा नार्य्या विशेष उभयोरयम्
यौवनागमने नार्य्याः पीवरौ भवतः स्तनौ ।गर्भवत्याः प्रसूतायास्तावेतौ क्षीरपूरितौ
हृदयं पुण्डरीकेण सदृशं स्यादधोमुखम् ।जाग्रतस्तद्विकसति स्वपतस्तु निमीलति
आशयस्तत्तु जीवस्य चेतनास्थानमुत्तमम् ।अतस्तस्मिंस्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि
”चेतनास्थानमुत्तममिति अयमभिप्रायः ।“चेतनानामधिष्ठानं मनो देहश्च सेन्द्रियः ।केशलोमनखाग्रान्तर्मलं द्रव्यगुणैर्विना
”इत्युक्तवता चरकेण सकलं शरीरं चेतनास्थान-मुक्तं तदपेक्षया हृदयं विशेषतश्चेतनावस्थान-मिति ।“कक्षयोर्व्वक्षसोः सन्धी जत्रुणी समुदाहृते ।कक्षे उभे समाख्याते तयोः स्याताञ्च वंक्षणौ
उदरं पञ्चमं भागं षष्ठं पार्श्वद्बयं मतम् ।सपृष्ठवंशं पृष्ठन्तु समस्तं सप्तमं स्मृतम्
*
उपाङ्गानि कथ्यन्ते तानि जानीहि यत्नतः
शोणिताज्जायते प्लीहा वामतो हृदयादधः ।रक्तवाहिशिराणां मूलं ख्यातो महर्षिभिः
हृदयाद्वामतोऽधश्च फुप्फुसो रक्तफेणजः ।अधो दक्षिणतश्चापि हृदयाद्यकृतः स्थितिः
तत्तु रञ्जकपित्तस्य स्थानं शोणितजं मतम् ।अधस्तु दक्षिणे भागे हृदयात् क्लोम तिष्ठति ।जलवाहिशिरामूलं तृष्णाच्छादनकृन्मतम्
”क्लोम तिलकं एतत्तु वातरक्तजम् अत्राह चवृद्धवाग्भटः ।“रक्तादनिलसंयुक्तात् कालीयक समुद्भवः ।”इति ।“मेदःशोणितयोः साराद्वुक्कयोर्युगलं भवेत् ।तौ तु पुष्टिकरौ प्रोक्तौ जठरस्थस्य मेदसः
उक्ताः सार्द्धास्त्रयो व्यामाः पुंसामन्त्राणिसूरिभिः ।अर्द्धव्यामेन हीनानि योषितोऽन्त्राणि निर्द्दिशेत्
उण्डुकश्च कटी चापि त्रिकं वस्तिश्च वंक्षणौ ।कण्डराणां प्ररोहः स्यान्मेढ्राणां वीर्य्यमूत्रयोः ।स एव गर्भस्याधानं कुर्य्याद्गर्भाशये स्त्रियाः
शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्त्ता सा कीर्त्तिता ।तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता
वृषणौ भवतः सारात् कफासृङ्मांसमेदसाम् ।वीर्य्यवाहिशिराधारौ तौ मतौ पौरुषावहौ
गुदस्य मानं सर्व्वस्य सर्व्वं स्याच्चतुरङ्गुलम् ।तत्र स्युर्व्वलयस्तिस्रः शङ्खावर्त्तनिभास्तु ताः
प्रवाहिणी भवेत् पूर्व्वा सार्द्धाङ्गुलमिता मता ।उत्सर्ज्जिनी तु तदधः सा सार्द्धाङ्गुलसम्मिता
तस्या अधःशम्बरणी स्यादेकाङ्गुलसम्मिता ।अर्द्धाङ्गुलप्रमाणन्तु बुधैर्गुदमुखं मतम्
मलोत्सर्गस्य मार्गोऽयं पायुर्देहे विनिर्मितः ।पुंसः प्रोथौ स्मृतौ यौ तु तौ नितम्बौ चयोषितः
तयोः कुकुन्दरे स्यातां सक्थिनी त्वङ्गमष्टमम् ।तदुपाङ्गानि व्रूमो जानुनी पिण्डिकाद्बयम्
जङ्घे द्वे घुटिके पार्ष्णी तले प्रपदे तथा ।पादावङ्गुलयस्तत्र दश तासां नखा दश
”इति भावप्रकाशः
(क्षेत्रज्ञो जीवात्मा यथा, मनुः ५३ ।“तस्मिन् स्वपिति तु स्वस्थे कर्म्मात्मानः शरी-रिणः ।स्वकर्म्मभ्यो निवर्त्तन्ते मनश्च ग्लानिमृच्छति
”)