| YouTube Channel

शरीरजः (zarIrajaH)

 
Wordnet
Sanskrit
Synonyms:
पुत्रः, पुत्रकः, सुतः, सूनु, तनयः, नन्दनः, आत्मजः, स्वजः, आत्मसम्भवः, अङ्गजः, शरीरजः, तनुजः, तनूजः, तनूजनिः, प्रसूतः, दारकः, कुमारः, उद्वहः
noun
मनुष्याणां पुमान् अपत्यम्।
"लालयेत् पञ्चवर्षाणि दश वर्षाणि ताडयेत् प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत्।"
शब्दकल्पद्रुमः
Sanskrit
शरीरजः,
पुं,
(शरीरात् जायते इति जन +डः ।) रोगः कामदेवः (यथा, महा-भारते १०० ५६ ।“नाकामयत तं दातुं वरं दाशाय शान्तनुः ।शरीरजेन तीव्रेण दह्यमानोऽपि भारत
”)पुत्त्रः इति धरणिः (यथा, महाभारते ।१३ २४ ।“इति पृष्टो मया राजन् पराशरशरीरजः ।अब्रवीन्निपुणो धर्म्मे निःसंशयमनुत्तमम्
”)देहजाते, त्रि यथा, --“शरीरजैः कर्म्मदोषैर्य्याति स्थावरतां नरः ।वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम्
”इति प्रायश्चित्ततत्त्वम्