| YouTube Channel

शरारिः (zarAriH)

 
Wordnet
Sanskrit
Synonyms:
शरारिः
noun
रामस्य सेनायां वर्तमानः एकः वानरः।
"शरारेः वर्णनं रामायणे प्राप्यते।"
शब्दकल्पद्रुमः
Sanskrit
शरारिः,
पुं,
(शरं जलं ऋच्छतीति ऋगतौ +“अच इः ।” इति इः ।) शरालिपक्षी तत्प-र्य्यायः आटिः आडिः इत्यमरः
आडी शराडी आडिका शराली ७शरालिः शराटिः शरालिका १० इतिशब्दरत्नावली
(यथा, ऋतुसंहरे ।“प्रफुल्लनीलोत्पलशोभितानिशरारिकादम्बविघट्टितानि ।प्रसन्नतोयानि सशैवलानिसरांसि चेतांसि हरन्ति यूनाम्
”)अस्य गुणाः पवनापहत्वम् स्निग्धत्वम् ।सृष्टमलत्वम् वृष्यत्वम् वातरक्तहरत्वम् ।हिमत्वञ्च इति राजवल्लभः
अपि ।“हंससारसकाचाक्षवकक्रौञ्चशरारिकाः ।नन्दीमुखीसकादम्बाः वलाकाद्याः प्लवाःस्मृताः
प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः ।वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः
”इति भावप्रकाशः