| YouTube Channel

शरदिजं (zaradijaM)

 
शब्दकल्पद्रुमः
Sanskrit
शरदिजं, त्रि, (शरदि जायते यत् जन + डः ।“प्रावृट्शरत्कालदिवां जे ।” १५ इतिसप्तम्या अलुक् ।) शरत्कालजातम् यथा, “नद्यः प्रावृषिजास्तु पीनसकफश्वासार्त्तिकाश-प्रदाःपथ्या वातकफापहाः शरदिजा हेमन्तजाबुद्धिदाः ।सन्तापं शमयन्ति संविदधते शैशिर्य्यवासन्तजा-स्तृष्णादाहवमिश्रमार्त्तिशमदा ग्रीशे यथास्वंगुणाः
इति राजनिर्घण्टः