| YouTube Channel

शरणागतः (zaraNAgataH)

 
Wordnet
Sanskrit
Synonyms:
शरणार्थी, शरणागतः
noun
यः शरणम् इच्छति।
"ईश्वरः शरणार्थिनः रक्षति।"
शब्दकल्पद्रुमः
Sanskrit
शरणागतः, त्रि, (शरणमागतः प्राप्तः ।) शरणा-पन्नः तत्पर्य्यायः शरणार्पकः अभिपन्नः ३शरणार्थी इति त्रिकाण्डशेषः
तद्रक्षणा-रक्षणयोः गुणदौषौ यथा, --“शस्त्रहीनञ्च भीतञ्च दीनञ्च शरणागतम् ।यो रक्षत्यधर्म्मिष्ठः कुम्भीपाके वसेद्युगम्
राजसूयशतानाञ्च रक्षिता लभते फलम् ।परमैश्वर्य्ययुक्तश्च धर्म्मेण भवेदिह
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५५ अध्यायः
*
अपि ।“शरणागतरक्षां यः प्राणैरपि धनैरपि ।कुरुते मानवो ज्ञानी तस्य पुण्यं निशामय
सर्व्वपापविनिर्मुक्तो ब्रह्महत्यामुखैरपि ।आयुषोऽन्ते व्रजेन्मोक्षं योगिनामपि दुर्लभम्
”इति पाद्मे क्रियायोगसारे गङ्गामाहात्म्यं नाम८ अध्यायः
अन्यच्च ।“लोभाद्द्वेषाद्भयाद्वापि यस्त्यजेत् शरणागतम् ।ब्रह्महत्यासमं तस्य पापमाहुर्मनीषिणः
शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि ।शरणागतहातुस्तु दृष्टा निष्कृतिः क्वचित्
”इति वह्निपुराणे दानावस्थानिर्णयनामाध्यायः