शयनं (zayanaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishशयनं [शी-ल्युट्] 1 Sleeping, sleep, lying down.
2 A bed, couch
शयनस्थो न भुंजीत Ms. 4. 74, R. 1. 95
V. 3. 10.
3 Copulation, sexual union.
Comp.
अ (आ) गारः
रं,
गृहं a bed-chamber, sleeping apartments.
एकादशी the eleventh day of the bright half of Āṣāḍha when Viṣṇu lies down to enjoy his four months’ repose.
सखी a bed-fellow.
स्थानं a sleeping apartment, bedchamber.
Hindi
Hindiनीन्द
शब्दकल्पद्रुमः
Sanskritशयनं, (शी + ल्युट् ।) निद्रा । शय्या ।इत्यमरः ॥
(यथा, महाभारते । १ । १४५ । १४ ।“आसनानि च दिव्यानि यानानि शयनानि च ।विधातव्यानि पाण्डूनां यथा तुष्येत वै पिता ॥
”)मैथुनम् । इति मेदिनी ॥
अथ सर्व्वदेवशयन-कालः ।पुलस्त्य उवाच ।“यदाषाढी समायाति व्रजते चोत्तरायणम् ।तदा स्वपिति देवेशो भोगिभोगे श्रियः पतिः ॥
प्रतिसुप्ते विभौ तस्मिन् देवगन्धर्व्वगुह्यकाः ।देवानां मातरश्चापि प्रसुप्ताश्चाप्यनुक्रमात् ॥
नारद उवाच ।कथयस्व सुरादीनां शयने विधिमुत्तमम् ।सर्व्वञ्चानुक्रमेणैव पुरस्कृत्य जनार्द्दनम् ॥
पुलस्त्य उवाच ।मिथुनाभिगते सूर्य्ये शुक्लपक्षे तपोधन ।एकादश्यां जगत्स्वामिशयनं परिकल्पयेत् ॥
शेषाहिभोगपर्य्यङ्कं कृत्वा संपूज्य केशवम् ।कृत्वोपवीतकञ्चैव सम्यक् संपूज्य च द्बिजान् ॥
अनुज्ञां ब्राह्मणेभ्यश्च द्बादश्यां प्रयतः शुचिः ।लब्ध्वा पीताम्बरधरं स्वस्तिनिद्रां समानयेत् ॥
त्रयोदश्यां ततः कामः स्वपते शयने शुभे ।कदम्बानां सुगन्धानां कुसुमैः परिकल्पिते ॥
चतुर्दश्यां ततो यक्षाः स्वपन्ति सुखशीतले ।सुवर्णपङ्कजकृते सुखास्तीर्णोपधानके ॥
पौर्णमास्यामुमानाथः स्वपते चर्म्मसंस्तरे ।वैयाघ्रे च जटाभारं समुद्ग्रथ्यान्यचर्म्मणा ॥
ततो दिवाकरो राशिं संप्रयाति च कर्कटम् ।ततोऽमराणां रजनी भवते दक्षिणायनम् ॥
ब्रह्मा प्रतिपदि तथा नीलोत्पलदलेऽनघ ।तल्पे स्वपिति देवानां दर्शयन् मार्गमुत्तमम् ॥
विश्वकर्म्मा द्वितीयायां तृतीयायां गिरेः सुता ।विनायकश्चतुर्थ्यान्तु पञ्चम्यामपि धर्म्मराट् ॥
षष्ठ्यां स्कन्दश्च स्वपिति सप्तम्यां भगवान् रविः ।कात्यायनी तथाष्टम्यां नवम्यां कमलालया ॥
दशम्यां भुजगेन्द्राश्च स्वपन्ति वायुभोजनाः ।एकादश्यान्तु कृष्णायां साध्या ब्रह्मन् स्वपन्तिहि ॥
एष क्रमस्ते गदितो निशायां शयने मुने ।स्वपत्सु तेषु देवेषु प्रावृट्कालः समाययौ ॥
कङ्काः समं वलाकाभिरारोहन्ति नगोत्तमान् ।वायसाश्चापि कुर्व्वन्ति नीडानि मुनिपुङ्गव ।वायस्यश्च स्वपन्त्येता ऋतौ गर्भभरालसाः ॥
यस्यां तिथ्यां प्रस्वपिति विश्वकर्म्मा प्रजापतिः ।द्वितीया सा शुभा पुण्या सुपुण्या शयनोदिता ॥
तस्यां तिथावर्च्च्य हरिं श्रीवत्साङ्कं चतुर्भुजम् ।पर्य्यङ्कस्थं समं लक्ष्म्या गन्धपुष्पादिभिर्मुने ॥
ततो देवाय शय्यायां फलानि प्रक्षिपेत् क्रमात् ।सुरभीणि निवेद्येत्थं विज्ञाप्यो मधुसूदनः ॥
यथा हि लक्ष्म्या न वियुज्यसे त्वंत्रिविक्रमानन्त जगन्निवास ।तथास्त्वशून्यं शयनं सदैवत्वस्माकमेवेह तव प्रसादात् ॥
तदा त्वशून्यं तव देव तल्पंस्वयं हि लक्ष्म्या शयने सुरेश ।सत्येन तेनामितवीर्य्य विष्णोगार्हस्थ्यरागो मम चास्तु देव ॥
इत्युच्चार्य्य प्रणम्येशं प्रसाद्य च पुनः पुनः ।नक्तं भुञ्जीत देवर्षे तैलक्षारविवर्जितम् ॥
द्वितीयेऽह्नि द्बिजाग्र्याय फलं दद्याद्बिचक्षणः ।लक्ष्मीधर प्रीयतां मे इत्युच्चार्य्य निवेदयेत् ॥
अनेन तु विधानेन चातुर्मास्यव्रतं चरेत् ।यावद्वृश्चिकराशिस्थः प्रतिभाति दिवाकरः ।ततो विबुध्यन्ति सुराः क्रमशः क्रमशो मुने ॥
नभस्ये मासि च तथा या स्यात् कृष्णाष्टमीशुभा ।युक्ता मृगशिरेणैव सा तु कामाष्टमी स्मृता ॥
तस्यां सर्व्वेषु लिङ्गेषु तिथौ स्वपिति शङ्करः ।वसते सन्निधाने तु तत्र पूजाक्षया स्मृता ॥
”इति वामने १६ अध्यायः ॥
* ॥
अथ हरिशयनादिव्यवस्था । भविष्यनारदी-ययोः ।“मैत्राद्यपादे स्वपितीह विष्णु-र्व्वैष्णव्यमध्ये परिवर्त्तते च ।पौष्णावसाने च सुरारिहन्ताप्रबुध्यते मासचतुष्टयेन ॥
”मैत्रमनुराधा । वैष्णवं श्रवणा । पौष्णं रेवती ।भविष्ये ।“निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्त्तनम् ।अन्यत्र पादयोगे तु द्बादश्यामेव कारयेत् ॥
”इत्थञ्च नक्षत्रयोगप्राप्तौ फलातिशयः । एत-द्विधानं वामनपुराणे ।“एकादश्यां जगत्स्वामिशयनं परिकल्पयेत् ।शेषाहिभोगपर्य्यङ्कं कृत्वा संपूज्य केशवम् ॥
अनुज्ञां ब्राह्मणेभ्यश्च द्बादश्यां प्रयतः शुचिः ।लब्धा पीताम्बरधरं देवं निद्रां समानयेत् ॥
”अनुज्ञां लब्ध्वा इत्यन्वयः । एकादशीसमये दिवा-शयनीयकल्पनं रात्रौ द्वादशीक्षणे निद्रेति ।विष्णुधर्म्मोत्तरे ।“स्वास्तीर्णशयनं कृत्वा प्रीणयेद्भोगशायिनम् ।आषाडशुक्लद्बादश्यां विष्णुलोके महीयते ॥
”स्वास्तीर्णशयनं शोभनास्तरणयुक्तं खट्टादि ।वराहपुराणे श्रीभगवानुवाच ।“अन्यत्तु संप्रवक्ष्यामि कर्म्म संसारमोचनम् ।कदम्बकुटजश्चैव धवकोऽर्ज्जुनकस्तथा ॥
एभिरभ्यर्च्चनं कुर्य्याद्विधिदृष्टेन कर्म्मणा ।ततः संस्थापनं कृत्वा मम मन्त्रविधिः स्मृतः ।नमो नारायणायोक्त्वा इमं मन्त्रमुदीरयेत् ॥
पश्यन्तु मेघानपि मेघश्यामंह्युपागतं सिच्यमानं महीमिमाम् ।निद्रां भगवान् गृह्णातु लोकनाथवर्षास्विमं पश्यतु मेघवृन्दम् ॥
ज्ञात्वैव पश्यैव च लोकनाथ मासा-श्चत्वारि वैकुण्ठस्य च पश्य नाथ ।आषाढशुक्लद्वादश्यां सर्व्वशान्तिकरम् शिवम् ॥
य एतेन विधानेन भूमि ! मे कर्म्म कारयेत् ।स पुमान् न प्रणश्येत्तु संसारेषु युगे युगे ॥
शयने कुटजविधानात् विष्णुधर्म्मोत्तरीयनिषे-धोऽन्यत्र । धवकः कपित्थः । संस्थापनं समा-पनम् । भूमि इति पृथिव्याः सम्बोधनम् ।“एवमुक्तेन मन्त्रेण कृष्णं सुष्वापयेत्ततः ।सुप्ते त्वयि जगन्नाथ जगत् सुप्तं भवेदिदम् ।विबुद्धे त्वयि बुध्येत जगत् सर्व्वं चराचरम् ॥
”इति मन्त्रेण पूजयेत् ॥
* ॥
“प्राप्ते भाद्रपदे मासि एकादश्यां सितेऽहनि ।कटदानं भवेद्विष्णोर्महापूजा प्रवर्त्तते ॥
”कटदानं पार्श्वपरिवर्त्तः । कामरूपीयनिबन्धे ।“एवं संपूज्य विधिवत् भाद्रस्य द्बादशीदिने ।मन्त्रेणानेन देवेशं पार्श्वेन परिवर्त्तयेत् ॥
वासुदेव जगन्नाथ प्राप्तेयं द्वादशी तव ।पार्श्वेन परिवर्त्तस्व सुखं स्वपिहि माधव ॥
त्वयि सुप्ते जगन्नाथ जगत् सर्व्वं चराचरम् ॥
”ब्रह्मपुराणे ।“एकादश्यान्तु शुक्लायां कार्त्तिके मासि केशवम् ।प्रसुप्तं बोधयेद्रात्रौ श्रद्धाभक्तिसमन्वितः ॥
”रात्रौ प्रसुप्तमित्यन्वयः । बोधनन्तु दिवैव ॥
“कृत्वा वै मम कर्म्माणि द्वादश्यां मत्परो नरः ।ममैव बोधनार्थाय इमं मन्त्रमुदीरयेत् ॥
महेन्द्ररुद्रैरभिनूयमानोभवानृषिर्व्वन्दितवन्दनीयः ।प्राप्ता तवेयं किल कौमुदाख्याजागृष्व जागृष्व च लोकनाथ ॥
मेघा गता निर्म्मलपूर्णचन्द्रःशारद्यपुष्पाणि च लोकनाथ ।अहं ददानीति च पुण्यहेतो-र्जागृष्व जागृष्व च लोकनाथ ॥
एवं कर्म्माणि कुर्व्वीरन् द्बादश्यां ये यशस्विनि ।मम भक्ता नरश्रेष्ठास्ते यान्ति परमां गतिम् ॥
”अत्र मन्त्रद्बयपाठानन्तरम् ।“उत्तिष्ठोत्तिष्ठ गोविन्द त्यज निद्रां जगत्पते ।त्वया चोत्थीयमानेन उत्थितं भुवनत्रयम् ॥
”इति सम्प्रदायागतस्तृतीयः श्लोक इति वाच-स्पतिमिश्राः ॥
शयनोत्थानमन्त्रास्तु कल्पतरु-प्रभृतिग्रन्थसंवादाल्लिखिताः । तदेवं द्बादश्यांएकादश्यां वा रेवत्यन्तपादयोगवशाद्दिवोत्थानंनक्षत्रयोगाभावे तु द्बादश्यामेव कारयेदितिगुरुचरणाः । जीमूतवाहनस्तु भविष्ये ।“आ-भा-का-सितपक्षेषु मैत्रश्रवणरेवती ।आदिमध्यावसानेषु प्रस्वापावर्त्तबोधनम् ॥
”आ-भा-का-सितपक्षेषु आषाढभाद्रकार्त्तिक-शुक्लपक्षेषु । एषाञ्च द्वादश्यां प्राप्तौ मुख्य-कल्पः । भविष्यपुराणम् ।“निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्त्तनम् ।अन्यत्र पादयोगे तु द्वादश्यामेव कारयेत् ॥
”विष्णुधर्म्मोत्तरे ।“विष्णुर्दिवा न स्वपिति न रात्रौ प्रतिबुध्यते ।द्वादश्यामृक्षसंयोगे पादयोगो न कारणम् ॥
अप्राप्ते द्बादशीमृक्षे उत्थानशयने हरेः ।पादयोगेन कर्त्तव्येनाहोरात्रं विचिन्तयेत् ॥
”वचनान्तरम् ।“रेवत्यन्तो यदा रात्रौ द्बादश्या च समन्विततदा विबुध्यते विष्णुर्दिनान्ते प्राप्य रेवतीम् ॥
दिनान्ते त्रिधा विभक्तदिनतृतीयभागे दिवोत्थान-मित्यनुरोधात् । अतएव ।“रात्रौ विबोधो विनिहन्ति पौरान्स्वापो दिवा राष्ट्रकुलं नृभर्त्तुः ।सन्ध्याद्बये स्वल्पफला धरित्रीभवेन्नराणामपि रोगदुःखम् ॥
”इति श्रुतिः ॥
वराहपुराणे ।“द्वादश्यां सन्धिसमये नक्षत्राणामसम्भवे ।आ-भा-का-सितपक्षेषु शयनावर्त्तनादिकम् ॥
”तदेवं शयनादौ कालचतुष्टयम् । द्वादश्यांनिशादौ नक्षत्रयोगः । तदभावेऽपि निशाद्य-नादरेण तिथ्यन्तरे पादयोगः । तस्याप्यभावे-ऽपि सन्ध्यायां नक्षत्रमात्रयोगः । तस्याप्यभावेद्वादश्यां सन्ध्यायामिति । विष्णुधर्म्मोत्तरे ।“किं तन्मैत्राद्यपादेन दशम्यंशेन यो दिवा ।पौष्णशेषेण किं तेन प्रतिपद्यध यो निशि ॥
”इति दशमीप्रतिपदोर्निषेधात् एकादश्यादिपौर्ण-मास्यन्तानां तिथीनामभ्यनुज्ञानम् ॥
* ॥
पद्मपुराणे सर्व्वदेवशयनादिकमुक्तं यथा, --“प्रतिपद्धनदस्योक्ता पवित्रारोहणे तिथिः ।श्रिया देव्या द्वितीया तु तिथीनामुत्तमा स्मृता ॥
तृतीया तु भवान्याश्च चतुर्थी तत्सुतस्य च ।पञ्चमी सोमराजस्य षष्ठी प्रोक्ता गुहस्य च ॥
सप्तमी भास्करस्योक्ता दुर्गायाश्चाष्टमी स्मृता ।मातॄणां नवमी प्रोक्ता दशमी वासुकेस्तथा ॥
एकादशी ऋषीणान्तु द्बादशी चक्रपाणिनः ।”चक्रपाणिन इति पणव्यवहार इत्यस्मात् ।“त्रयोदशी त्वनङ्गस्य शिवस्योक्ता चतुर्द्दशी ।मम चैव मुनिश्रेष्ठ पौर्णमासी तिथिः स्मृता ॥
यस्य यस्य तु देवस्य यन्नक्षत्रं तिथिश्च या ।तस्य देवस्य तस्मिंश्च शयनावर्त्तनादिकम् ॥
”अत्र हरिशयनाद्याषाढादिविधानात् तत्साह-चर्य्यादन्येषामपि तथा । ज्योतिषेऽपि ।“व्रजति यदा मिथुनं विहायकर्कं राजविवर्ज्जितां तिथिं सूर्य्यः ।भवति तदा नियतं द्बिराषाढःसुरशयनादिविधिर्द्वितीये मासि ॥
”राज्ञा चन्द्रेण विवर्ज्जितां अमावास्याम् । पूर्व्व-कृष्णपक्षे मिथुने संक्रान्ते इति शेषः । हरि-नाथोपाध्यायास्तु । यमः ।“क्षीराब्धौ शेषपर्य्यङ्के आषाढ्यां संविशेद्धरिः ।निद्रां त्यजति कार्त्तिक्यां तयोस्तं पूजयेत् सदा ॥
ब्रह्महत्यासमं पापं क्षिप्रमेव व्यपोहति ।हिंस्रात्मकैश्च किं तस्य यज्ञैः कार्य्यं महात्मनः ।प्रस्वापे च प्रबोधे च पूजितो येन केशवः ॥
”आषाढशुक्लैकादशीमारभ्य पौर्णमासीपर्य्यन्तंविष्णोर्निद्राग्रहणरूपशयनसमयः । अतएवएकादश्यां शयनमभिधाय तदादिदिनपञ्चकेकर्म्मकथनं ब्रह्मपुराणे । वराहपुराणीये तु ।एकादशीकालीनमन्त्रे निद्राग्रहणाभिधानम् ।यमस्मृतौ पौर्णमास्यां शयनाभिधानम् ।आषाढीपदस्यानुपाधेस्तत्रैव प्रवृत्तेः । एवञ्चब्रह्मपुराणे यद्यप्येकादश्यां प्रबोधसमयः । तेनवराहपुराणे द्वादश्यां प्रबोधाभिधानम् । यम-स्मृतौ कार्त्तिक्यां प्रबोधाभिधानम् सर्व्वसमञ्जस-मिति । एवमेव श्रीदत्तोपाध्यायाः । कल्पतरुस्तुएकादश्यामेव शयनं प्रबोधश्च । यमस्मृतावा-षाढी कार्त्तिकस्येयमिति वुत्पत्त्या न तत्प्रत्य-यानुपपत्तिः । अपवादविषयके क्वचिदुत्सर्ग-प्रवृत्तेरित्याह । श्रीभगवद्वाक्यम् ।“मच्छयने मदुत्थाने मत्पार्श्वपरिवर्त्तने ।फलमूलजलाहारी हृदि शल्यं ममार्पयेत् ॥
”फलाहारपदमनशनपरम् । तेन सर्व्वथा अन-शनपरत्वम् । इत्येकादशीतत्त्वम् ॥
* ॥
मर्त्त्यानां शयनविधिनिषेधौ यथा, --सूत उवाच ।“उपास्य पश्चिमां सन्ध्यां हुत्वाग्नींस्तानुपास्य च ।भृत्यैः परिवृतो भुक्त्वा नातितृप्तोऽथ संविशेत् ॥
शुचिं देशं विविक्तन्तु गोमयेन तु लेपयेत् ।प्रागुदक्प्रवणे चैव संस्वपेत सदा बुधः ॥
प्राक्शिराश्च स्वपेन्नित्यं तथा वै दक्षिणाशिराः ।स्वपेदुदक्शिरा नैव तथा प्रत्यक्शिरा न च ।न चान्तर्द्धानहीने तु न तिर्य्यक् च कदाचन ॥
शून्यालये श्मशाने तु एकवृक्षे चतुष्पथे ।महादेवगृहे चापि मातृवेश्मनि न स्वपेत् ॥
न यक्षनागायतने स्कन्दस्यायतने तथा ।गर्भेषु च विना दीक्षां न स्वपेच्च कथञ्चन ॥
धान्यगेहे च विप्राणां गुरूणाञ्च तथोपरि ।नाशुचौ पर्णकीर्णे तु नाशुचिर्नाशिखस्तथा ॥
दिने सन्धौ न नग्नश्च नोत्तरापरमस्तकः ।आकाशे पर्व्वते शून्ये न च चैत्यद्रुमे तथा ॥
न तु द्वारेऽम्भसाकीर्णे नार्द्रपादस्त्वधावितः ।पालाशे शयने नैव बहुदारकृते न च ॥
न दग्धे विद्युता चैव वह्निप्लुष्टे जले तथा ।न स्वपेत् सन्ध्ययोर्नित्यं न शिरस्यासने कटे ॥
एवं खपन् नरो नित्यं सुखस्येह परत्रभाक् ।व्यत्यये च भवेद्दुःखी मृतो नरकमश्नुते ॥
”इति वह्निपुराणे आह्निकतपोनामाध्यायः ॥
* ॥
अपि च । सति सूर्य्ये शय्या च न पातनीयासूर्य्योदयात् पूर्व्वमुत्तोलनीया । तथा च स्मृतिः ।“भास्करादृष्टशय्यानि नित्याग्निसलिलानि च ।सूर्य्यावलोककिदीपानि लक्ष्म्या वेश्मानि भाज-नम् ॥
आसनं वसनं शय्या जायापत्यं कमण्डलुः ।आत्मनः शुचिरेतानि न परेषां कदाचन ॥
”न कदाचन इत्यनुमतिं विना अन्यथातिथ्यानु-पपत्तेः । व्यासः ।“शुचौ देशे विविक्ते तु गोमयेनोपलिप्तके ।प्रागुदक्प्लवने चैव संविशेत्तु सदा बुधः ॥
माङ्गल्यं पूर्णकुम्भञ्च शिरःस्थाने निधापयेत् ।वैदिकैर्गारुडैर्म्मन्त्रै रक्षां कृत्वा स्वपेत्ततः ॥
”गर्गः ।“स्वगृहे प्राक्शिराः शेते आयुष्ये दक्षिणा-शिराः ।प्रत्यक्शिराः प्रवासे तु न कदाचिदुदक्शिराः ॥
”मार्कण्डेयपुराणे ।“प्राक्शिराः शयने विद्यात् धनमायुश्च दक्षिणे ।पश्चिमे प्रबलां चिन्तां हानिं मृत्युं तथोत्तरे ॥
”तथा ।“नमस्कृत्याव्ययं विष्णुं समाधिस्थः स्वपेन्निशि ।”मार्कण्डेयः ।“शून्यागारे श्मशाने च एकवृक्षे चतुष्पथे ।महादेवगृहे चापि शर्करालोष्ट्रपांशुषु ॥
धान्यगोविप्रदेवानां गुरूणाञ्च तथोपरि ।न चापि भग्नशयने नाशुचौ नाशुचिः स्वयम् ॥
नार्द्रवासा न नग्नश्च नोत्तरापरमस्तकः ।नाकाशे सर्व्वशून्ये च न च चैत्यद्रुमे तथा ॥
”न स्वपेदित्यर्थः । इत्याह्निकाचारतत्त्वम् ॥
* ॥
अन्यच्च ।“भुक्त्वा च विधिवन्मन्त्रैर्द्विजो भुक्तावशिष्टकम् ।ससुहृद्बान्धवजनः स्वपेत् शुष्कपदो निशि ॥
नोत्तराभिमुखः स्वप्यात् पश्चिमाभिमुखो नच ।न चाकाशे न नग्नो वा नाशुचिर्नासने क्वचित् ॥
न शीर्णायान्तु खट्वायां शून्यागारे न चैव हि ।नापि वंश्ये च पालाशे शयने वा कदाचन ॥
”इति कौर्म्मे उपविभागे १८ अध्यायः ॥
* ॥
अपि च ।“कृतपादादिशौचश्च भुक्त्वा सायं ततो गृही ।गच्छेत् शय्यां समन्त्राञ्च अथवा दारुनिर्म्मिताम् ॥
शाल्मलस्य कदम्बस्य नीपमन्दारकस्य च ।किंशुकस्य वटस्याथ तथा कुशमयस्य च ॥
आरोहणात भवेत् पापं तस्मात्तेषु न चस्वपेत् ।प्ररोहशय्यां सूत्रे वा अपर्णे परमेश्वरि ! ॥
न शुक्रे नापवित्रे च न तृणे न च भूतले ।तूलिकायां तथा वस्त्रे शय्याभावे स्वपेद्गृही ।स्वपेन्न पट्टवस्त्रे च कलङ्की कम्बलेषु च ॥
”इति मत्स्यसूक्ते ४४ पटलः ॥
* ॥
अपि च ।“सूर्य्येणाभ्युदितो यस्तु त्यक्तः सूर्य्येण यः स्वपन् ।अन्यत्रातुरभावाच्च प्रायश्चित्तीयते नरः ॥
”इति विष्णुपुराणे ३ अंशे ११ अध्यायः ॥
यस्मिन् सुप्ते सूर्य्य उदेति स सूर्य्येणाभ्युदितः ।यस्मिन् सुप्ते अस्तं याति स सूर्य्येण त्यक्तः ॥
सूर्य्योदयास्तसमययोः स्वपन् प्रायश्चित्तीयतेपातकी भवेदित्यर्थः । इति तस्य टीका च ॥
किञ्च ।“श्वासानष्टौ समुत्तानस्तान् द्वि १६ पार्श्वे चदक्षिणे ।ततस्तद्द्विगुणान् ३२ वामे पश्चात् स्वप्यात्यथासुखम् ॥
वामदिशायामनलो नाभेरूर्द्ध्वोऽस्ति जन्तू-नाम ।तस्मात्तु वामपार्श्वे शयीत भुक्तप्रपाकार्थम् ॥
”इति भावप्रकाशः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
