| YouTube Channel

शम्भलः (zambhalaH)

 
शब्दकल्पद्रुमः
Sanskrit
शम्भलः,
पुं,
ग्रामविशेषः अधुना सम्बल-मोरदा-वाद इति नाम्ना ख्यातः तत्र षष्टितीर्थानिसन्ति कल्की चाविर्भूय सहस्रं समाः स्थास्यति ।यथा, --“शम्भले वसतस्तस्य सहस्रं परिवत्सराः ।व्यतीता भ्रातृपुत्त्रस्वज्ञातिसम्बन्धिभिः सह
शम्भले शुशुभे श्रेणीसभापणकचत्वरैः ।पताकाध्वजचित्राद्यैर्यथेन्द्रस्यामरावती
यत्रास्ते षष्टितीर्थानां सम्भवः शम्भलेऽभवत् ।मृत्यौ मोक्षः क्षितौ कल्केरकल्कस्य क्षयाश्रयः
वनोपवनसन्ताननानाकुसुमसङ्कुलैः ।शोभितं शम्भलग्रामं मन्ये मोक्षोपमं भुवि
महीमाश्वास्य भगवान् निजजन्मकृतोद्यमः ।शम्भलग्रामविप्रर्षिमाविवेश परात्मकः
सुमत्यां विष्णुयशसा गर्भमाधत्त वैष्णवम् ।द्वादश्यां शुक्लपक्षस्य माधवे मासि माधवः
जातो ददृशतुः पुत्त्रं पितरौ हृष्टमानसौ ।धात्रीमाता महाषष्ठी नाडीच्छेत्री तदाम्बिका
गङ्गोदकक्लेदमोक्षा सावित्री मार्ज्जनोद्यता ।तस्य विष्णोरनन्तस्य मातृकादात् पयःसुधाम्
सुमतिस्तं सुतं लब्ध्वा विष्णुं जिष्णुं जगत्प्रभुम् ।पूर्णकामा विप्रमुख्यानाहूयादात् गवां शतम्
तं बालकं नराकारं विष्णुं मत्वा मुनीश्वराः ।कल्किं कल्कविनाशार्थमाविर्भूतं विदुर्ब्बुधाः ।नामाकुर्व्वंस्ततस्तस्य कल्किरित्यभिविश्रुतम्
”इति कल्किपुराणे अध्यायः