| YouTube Channel

शमु (zamu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
शम्
मूलधातुः:
शमु
धात्वर्थः:
उपशमे
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
शाम्यति
धातुप्रदीपः
Sanskrit
शमुँ शमु उपशमे
- शाम्यति रोगः शशाम शमिता अशमत् शमो शमित्वा शान्त्वा शान्तः शान्तिः उपशमः शमनः प्रशान् तरति स्वरादिपाठादव्ययम् प्रशानिति 95
क्षीरतरङ्गिणी
Sanskrit
शमुँ शमु उपशम
- इतो गृध्यताः (136) षट्चत्वारिंशत् सेटः परस्मैपदिनश्च शमामष्टानां दीर्घः श्यनि (7374)-शाम्यति अशमत् शमोऽदर्शने (1558) मित्-शमयति रोगम् दर्शने तु-निशामयति रूपम् शमिता शान्त्वा शमित्वा शान्तः पोरदुपधात् (3198)-शम्यम् क्विप् (द्र0 3276)-प्रशान्, मो नो धातोः (8264), तस्य पूर्वत्रासिद्धत्वान् नलोपः प्रातिपदिकान्तस्य (827) नास्ति शमित्यष्टाभ्यो घिनिण् (तु0 32141)-शमी घञ् (द्र0 3218, 19)-शमः गौरादौ (गण0 4141) शमी वृक्षः शान्तिः वा दान्तशान्त (7227) इति शान्तः: शमितः शकिशम्योर्नित् (उ0 1112) शमलम् जनिदाच्युप् (उ0 4104 उज्ज्व0) इति शण्ठः शमेः खः (उ0 1102)-शङ्खः शमेर्ढः (उ0 199)-शण्ढः 89
धातुवृत्तिः
Sanskrit
शमुँ शमु (अर्थः) उपशमने
शाम्यति शशाम, शेमतुः, शेमिथ, शेमिव शमिता शमिष्यति शाम्यतु अशाम्यत्, शाम्येत् ) आशिषि, ( शम्यात् अशमत ) "शमाष्टानां दीर्घश्श्यनि'' इति दीर्घः ( शिशमिषति शंशम्यते शंशमीति, शंशन्ति, शंशान्तः ) (निशामयति वचः, ) अमन्तत्वान्मित्त्वम् ( अशामि, अशमि ) "चिण्णमुलोर्दीर्घोऽन्यतरस्याम्'' इति णेश्चिणि पक्षे दीर्घः ( निशामयति रूपम्, "शमोऽदर्शने' इति दर्शने मित्त्वनिषेधः ( शमी ) "शमित्यष्टाभ्यो घिनुण्'' इति घिनुण्"नोदात्तोपदेशस्य मान्तस्य'' इति वृद्धिनिषेधः शमयतीति (शमनः) बाहुलकात्कर्तरि ल्युः ( शमित्वा, शान्त्वा ) "उदितो वा'' इतीड्विकल्पः ( शान्तः ) "यस्य विभाषा'' इतीण्णिषेधः प्रशाम्यतीति ( प्रशान् ) "अनुनासिकस्य क्विझलोः क्ङ्गिति'' इति क्विपि दीर्घः "मो नो धातोः'' इति नकारः पदान्ते स्वरादित्वादस्याव्ययत्वम् ( शान्तिः ) "तितुत्र'' इतीण्णिषेधः ( शान्तः ) ण्यन्तात् "वा दान्तशान्त'' इति णिलुगनिट्त्वं पक्षे निपात्यते अन्यदा ( शमितः ) "निष्ठायां सेटि'' इति णिलोपः ( शमलम् ) "शकिशम्योर्नित्'' इति कलप्रत्ययः ( शम्बः ) "शमेर्बन्'' इति बन्प्रत्ययः ( शम्बाकरोति ) कृञो द्वितीयतृतीयशम्ब'' इति डाच् अनुलोमकृष्टं प्रतिलोमं कृषतीत्यर्थः शम्बशब्दस्यात्र प्रातिलोम्ये वृत्तिः "कृञश्च, कर्षणे' इति हरदत्तः ( शम्बुः ) "शमेर्बुन्'' इति बुन् प्रत्ययः ( शाम्बव्यम् ) गर्गादित्वाद्यञ् ( शमी ) शमशब्दात्पिप्ल्यादित्वान्डीष् शम्या विकारोऽवयवो वा ( शामीलम् ) "शम्याष्ट्लञ्'' टित्वात् स्त्रियां ( शांमीला ) 93
कृदन्तरूपमाला
Sanskrit
1 {@“शमु उपशमने”@} 2 शमादिः।
‘आलोचने शमयते शाम्यत्युपशमे श्यनि।’ 3 इति देवः।
4 शमकः-मिका, 5 निशामकः-मिका, शमकः-मिका, शिशमिषकः-षिका, शंशमकः, शम्शमकः-मिका
शमिता-त्री, निशामयिता रूपम्, निशमयिता वचः, शिशमिषिता-त्री, शंशमिता-शम्शमिता-त्री
6 शाम्यन् 7 -न्ती, निशामयन् 8 -न्ती, निशमयन् वचः, शिशमिषन्-न्ती
-- इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकदाम्यतिवत् 9 ज्ञेयानि।
10 शान्तः, 11 शान्तः 12 -शमितः 13, 14 प्रशान्, 15 शमी, 16 शमनः, 17 शान्तिः 18, 19 शमित्वा-शान्त्वा, 20 21 निशाम्य-निशम्य, 22 शमं शमं, 23 शण्ढः, 24 शमलम्, 25 शम्बलम्, 26 शङ्खः, शम्बुः, इत्यादीनि रूपाण्यधिकान्यत्रेति विशेषः।
णिजन्तात् ल्यपि-प्रशमय्य इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१६८५)
02
=>
(४-दिवादिः-१२०१। अक। सेट्। पर।)
03
=>
(श्लो। १४९)
04
=>
[[१। ण्वुलि ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ (७-३-३४) इति वृद्धिनिषेधः।]]
05
=>
[[२। धातोरमन्तत्वेन ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’ (ग। सू। भ्वादिः) इति मित्त्वम्। तेन ‘मितां ह्रस्वः’ (६-४-९२) इति णौ सर्वत्र ह्रस्वः। ‘शमो दर्शने’ (ग। सू। भ्वादिः) इति दर्शनार्थे मित्त्वं निषिद्धम्। एवञ्च ‘निशामयति रूपम्’ इत्यत्र मित्त्वाभावात् दीर्घः, ‘निशमयति वचः’ इत्यत्र मित्त्वम्, इति बोध्यम्।]]
06
=>
[[३। शतरि, शपः श्यनि, ‘शमामष्टानां--’ (७-३-७४) इति दीर्घः।]]
07
=>
[[आ। ‘अशाम्यदात्मापि तमी नमामि दमिप्रियं श्रान्तिहरं भवन्तम्।’ धा। का। २-६५।]]
08
=>
[[B। ‘रथेन तं राजपथे प्रयान्तं निर्व्याजसङ्गेन निशामयन्ती।’ या। अ। १३-५८।]]
09
=>
(८१९)
10
=>
[[४। निष्ठायां ‘यस्य विभाषा’ (७-२-१५) इति इण्निषेधः। ‘अनुनासिकस्य क्विझलोः--’ (६-४-१५) इति दीर्घः। अनुस्वारपरसवर्णौ।]]
11
=>
[[५। ण्यन्तात् निष्ठायां ‘वा दान्तशान्त--’ (७-२-२७) इति सूत्रे निपातनात् णिलुक्, अनिट्त्वं पक्षे भवतः। ‘निष्ठायां सेटि’ (६-४-५२) इति णिलोपः। दीर्घोऽपि नित्यो निपातनादेव। पक्षे शमितः इति।]]
12
=>
[[C। ‘दमितारिः प्रशान्तौजा नादापूरितदिङ्मुखः।’ भ। का। ९-२०।]]
13
=>
[[ड्। ‘शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसाम्।’ शि। व। ६-३३।]]
14
=>
[[६। प्रशाम्यतीति प्रशान्। क्विपि ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घः। ‘मो नो धातोः’ (८-२-६४) इति पदान्ते नकारः। स्वरादिषु पाठात् अव्ययत्वम्।]]
15
=>
[[७। तच्छीलादिषु कर्तृषु ‘शमित्यष्टाभ्यो घिनुण्’ (३-२-१४१) इति घिनुण्प्रत्ययः। प्रत्ययस्य णित्त्वेऽपि धातोर्मान्तत्वात् वृद्धिः।]]
16
=>
[[८। शमयतीति शमनः = यमः। बाहुलकात् नन्द्यादित्वात् कर्तरि ल्युप्रत्ययः।]]
17
=>
[[९। क्तिचि, ‘तितुत्र--’ (७-२-९) इतीण्निषेधः। दीर्घानुस्वारपरसवर्णाः।]]
18
=>
[[E। ‘प्रायोपासनया शान्तिं मन्वानो वालिसम्भवः।’ भ। का। ७-७३।]]
19
=>
[[१०। उदित्त्वात् क्त्वायामिड्विकल्पः। इडभावपक्षे दीर्घानुस्वारपरसवर्णादिकं यथाशास्त्रमूह्यम्।]]
20
=>
[पृष्ठम्१२८८+ २८]
21
=>
[[आ। ‘रतौ ह्रिया यत्र निशाम्य (निशम्य) दीपाञ्जालागताभ्योऽधिगृहं गृहिण्यः।’ शि। व। ३-४५।]]
22
=>
[[B। ‘शमं शमं नभस्वन्तः पुनन्ति परितो जगत्।’ भ। का। १८-२७।]]
23
=>
[[१। औणादिके (द। उ। ५-११) ढप्रत्यये रूपमेवम्। शान्तमस्य स्पर्शनेन्द्रियमिति शण्ढः = नपुंसकः।]]
24
=>
[[२। औणादिके (द। उ। ८-११२) कलप्रत्यये रूपम्। शमयति शाम्यते वा तत् प्राय- श्चित्तादिभिरिति शमलम् = दुरितम्।]]
25
=>
[[३। औणादिके (द। उ। ८-११४) कलप्रत्यये रूपम्। अस्य बुगागमश्च निपातनात्। शाम्यते मार्गपरिश्रान्तोऽनेनेति शम्बलम् = पाथेयम्, सञ्चयश्च।]]
26
=>
[[४। औणादिके (द। उ। १०-१५) इति खप्रत्यये रूपमेवम्। शाम्यतीति शङ्खः = प्रसिद्धः।]]