| YouTube Channel

शमीधान्यं (zamIdhAnyaM)

 
शब्दकल्पद्रुमः
Sanskrit
शमीधान्यं,
क्ली,
(शमी यज्ञादिकर्म्म तदर्थं धान्यम् ।)माषादिः इत्यमरः
तत्पर्य्यायगुणाः ।“शमीजाः शिम्बिजाः शिम्बातराः सूप्याश्चवैदलाः ।वैदला मधुरा रूक्षाः कषायाः कटुपाकिनः
वातलाः कफपित्तघ्ना बद्धमूत्रमला हिमाः ।ऋते मुद्गमसूराभ्यामन्ये त्वाध्मानकारकाः
”मुद्गमसूरयोराध्मानकारित्वमन्यद्वैदलापेक्षया ।नतु सर्व्वथा एतयोरपि किञ्चिदाध्मान-कारित्वदर्शनात् इति भावप्रकाशः
*
अपि ।“शूकधान्यं शमीधान्यं समातीतं प्रशस्यते ।परतो वातकृद्रूक्षं प्रायेणातिनवं गुरु
यवगोधूममाषाश्च तिलाश्चातिनवा हिताः ।पुराणा विरसा रूक्षा तथार्थकरा मताः
”इति राजवल्लभः