| YouTube Channel

शमनं (zamanaM)

 
शब्दकल्पद्रुमः
Sanskrit
शमनं,
क्ली,
(शम + ल्युट् ।) यज्ञार्थपशुहननम् ।इत्यमरः
शान्तिः इति मेदिनी
(यथा, पाणिनौ ३८ “वातस्य शमनंकोपनं वा ।” इति काशिका
) चर्व्वणम् ।इति धरणिः
हिंसा इति हेमचन्द्रः
(प्रतिसंहारः यथा, मार्कर्कण्डेये ७८ ।१३ ।“निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः ।प्रसीद स्वेच्छया रूपं स्वतेजःशमनं कुरु
”निवारकः यथा, तत्रैव देवीमाहात्म्ये ।“दुर्व्वृत्तवृत्तशमनं तव देवि ! शीलम्
”)