| YouTube Channel

शब्दवेधी (zabdavedhI)

 
शब्दकल्पद्रुमः
Sanskrit
शब्दवेधी, [न्]
पुं,
(शब्दमनुसृत्य वेद्धुं शील-मस्य विध + णिनिः ।) अर्ज्जुनः इति धन-ञ्जयः
दशरथराजः यथा, --“लब्धशब्देन कौशल्ये कुमारेण धनुष्मता ।कुमारः शब्दवेधीति मया पापमिदं कृतम्
”इति वाल्मीकीये रामायणे ६३ अध्यायः
शब्दवेधी इत्येवं लब्धकीर्त्तिनेति यावत् इतितट्टीका