| YouTube Channel

शब्दकारः (zabdakAraH)

 
शब्दकल्पद्रुमः
Sanskrit
शब्दकारः, त्रि, (शब्दं करोतीति कृ + अण् ।“न शब्दश्लोककलहगाथेति ।” २४ ।इति टप्रतिषेधः ।) शब्दं करोति यः यथा, “सतामरुस्करं पक्षी वैरकारं नराशनम् ।हन्तुं कलहकारोऽसौ शब्दकारः पपातखम्
”इति भट्टौ सर्गः