शप्ता-त्री (zaptA-trI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“शप आक्रोशे”@} 2 ‘आक्रोशे शप्यते शप्येत्, शपते शपतीति च।
उपालम्भे शपेर्वाक्यात्तङि स्यात् शपते पदम्।।’ 3 इति देवः।
‘आक्रोशो-विरुद्धानुध्यानम्’ इति क्षीरस्वामी।
शापकः-पिका, शापकः-पिका, शिशप्सकः-प्सिका, शाशपकः-पिका
शप्ता-त्री, शापयिता-त्री, शिशप्सिता-त्री, शाशपिता-त्री
शपन्-न्ती, शापयन्-न्ती, शिशप्सन्-न्ती
-- -- शप्स्यन्-न्ती-ती, शापयिष्यन्-न्ती-ती
-- -- १। ‘दाधेट्सिशदसदो रुः’ 4 इति रुप्रत्ययः ताच्छीलिकः।
5 कृष्णाय 6 शपमानः, शापयमानः, शिशप्समानः, शाशप्यमानः
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकतपतिवत् 7 ऊह्यानि।
शपनम्, 8 शप्यम्, 9 शपथः, 10 शब्दः, शाब्दिकः, 11 शबलः, 12 शप्वः, इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्ति।
01 (१६८३)
02 (१-भ्वादिः-१०००। अक। अनि। उभ।)
03 (श्लो। १३२)
04 (३-२-१५९)
05 [पृष्ठम्१२८६+ २८]
06 [[१। धातोरुभयपदित्वेऽपि ‘शप उपलम्भने’ (वा। १-३-२१) इत्यकर्त्रंभिप्रायेऽपि तङेव। ‘श्लाघह्नुङ्स्थाशपां--’ (१-४-३४) इति ज्ञीप्स्यमानस्य सम्प्रदानता। तेन ‘कृष्णाय’ इत्यत्र चतुर्थी। वार्तिके ‘वाचा शरीरस्य स्पर्शनम् = उपलम्भनम्’ इति काशिका। अत्र हरदत्तः “-- ‘त्वत्पादौ स्पृशामि--नैतत् मया कृतम्’ इत्येतद्रूपः शपथविशेष उपलम्भः” इति। कैयटस्तु ‘उपलम्भनम् = प्रकाशनम्’ इत्याह। शाकटायनस्तु प्रकाशनार्थमङ्गीकृत्य, ‘स्वाभिप्रायस्य परत्र आविष्करणं तत्’ -- इत्यप्याह। “चन्द्रभोजकौमारास्तु ‘प्रोषितस्य देवदत्तस्य भावाभावयो- रुपलब्धव्ययोः किञ्चिदासेवनमुपलम्भनम्। ‘देवदत्ताय शपते--’ प्रोषितस्य देवदत्तस्य भावाभावयोरुपलब्धव्ययोः किञ्चिदासेवते इत्यर्थः--” इति धातु- वृत्तिः। विस्तरस्तु माधवीये द्रष्टव्यः।]]
07 (७०३)
08 [[२। ‘पोरदुपधात्’ (३-१-९८) इति ण्यदपवादो यत्प्रत्ययः।]]
09 [[३। ‘शीङ्शपि--’ (द। उ। ६-३८) इत्यथप्रत्ययः। शपथः = प्रतिज्ञा।]]
10 [[४। ‘शाशपिभ्यां--’ (द। उ। ६-४८) इति दन्प्रत्ययः। ‘शब्दवैर--’ (३-१-१७) इति निपातनात् पकारस्य दकारः।]]
11 [[५। ‘शपेर्बश्च’ (द। उ। ८-१०८) इति कलप्रत्ययः, पकारस्य बकारश्च।]]
12 [[६। ‘शपेर्वन्’ (द। उ। ८-१३१) इति वन्प्रत्ययः। शप्यते इति शप्वः = आक्रोशः।]]
1 {@“शप आक्रोशे”@} 2 ‘आक्रोशे शप्यते शप्येत् शपते शपतीति च।
3 उपालम्भे शपेर्वाक्यात्तङि, स्याच्छपते पदम्।।’ 4 इति देवः।
शापकः-पिका, शापकः-पिका, शिशप्सकः-प्सिका, शाशपकः-पिका
शप्ता-त्री, शापयिता-त्री, शिशप्सिता-त्री, शाशपिता-त्री
शप्यन्-न्ती, शापयन्-न्ती, शिशप्सन्-न्ती
-- इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकतपतिवत् 5 ऊह्यानि।
6
01 (१६८४)
02 (४-दिवादिः-११६८। अक। अनि। उभ।)
03 [[७। ‘शप उपलम्भने’ इत्येव भाष्यादिषु पाठः। ‘उपालम्भने’ इत्यपि प्रायपाठ इति पुरुषकारे प्रतिपादितम्। प्रकृते दैवश्लोकेऽपि ‘उपालम्भे’ इत्येव दृश्यते। पाठनिर्णये विद्वांसः प्रमाणम्।]]
04 (श्लो। १३२।)
05 (७०३)
06 [पृष्ठम्१२८७+ २९]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
