शपथः (zapathaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishशपथः [śapathḥ], [शप्-अथन् 3.112]
Cursing.
A curse, an imprecation, anathema.
An oath, swearing, taking or administering an oath, asseveration by oath or ordeal
आमोदो न हि कस्तूर्याः शपथेनानुभाव्यते 1.12
8.19.
Conjuration, binding by oaths
सपदि शपथैः प्रत्यावृत्तिं प्रणम्य च याचते 3.2. -उत्तरम्, -पूर्वकम् with oaths. -करणम् taking an oath. -पत्रम् an affidavit, a statement on oath.
Apte 1890
EnglishWordnet
Sanskrit शपथः, दिव्यम्, सत्यम्, समयः, प्रत्ययः, अभीषङ्गः, अभिषङ्गः, परिग्रहः, क्रिया, शापः, शपः, शपनम्, अभिशापः, परिशापः
दृढनिश्चयात्मकं वचनम्।
"भोः शपथः अस्ति न किमपि कथितं मया।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
अमरकोशः
SanskritWord: शपथः
Root: शपथ
Gender: पुं
Number: all
Meaning(s):
⇒ vow
⇒ oath
⇒ curse
⇒ swear
⇒ ordeal
⇒ anathema
⇒ reviling
⇒ scolding
⇒ imprecation
Shloka(s):
1|6|9|2 ► उपोद्धात उदाहारः शपनं शपथः पुमान्॥ (शब्दादिवर्गः)
3|3|148|1 ► प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु। (नानार्थवर्गः)
3|3|149|2 ► समयाः शपथाचारकालसिद्धान्तसंविदः॥ (नानार्थवर्गः)
3|3|154|2 ► रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः॥ (नानार्थवर्गः)
Synonym(s):
➠ 1|6|9|2 ⇢ शपनम् (शपन) (नपुं) ⇒ oath, curse, abuse, reviling, imprecation, asseveration by oath or ordeal
➠ 1|6|9|2 ⇢ शपथः (शपथ) (पुं) ⇒ vow, oath, curse, swear, ordeal, anathema, reviling, scolding, imprecation
➠ 3|3|148|1 ⇢ प्रत्ययः (प्रत्यय) (पुं) ⇒ need, want, idea, fame, oath, basis, proof, usage, faith, trust, ground, notion, custom, ordeal, analysis, solution, notoriety, intellect, assumption, conviction, conception, definition, explanation, intelligence, consciousness, ascertainment, understanding, suffix [Grammar], co-operating cause, religious meditation, dependant or subject, belief firm conviction, affix or suffix to roots, assurance or certainty of, fundamental notion or idea, subsequent sound or letter, householder who keeps a sacred fire, concurrent occasion of an event as distinguished from its approximate cause
➠ 3|3|149|2 ⇢ समयः (समय) (पुं) ⇒ law, rule, time, case, sign, hint, limit, order, terms, season, speech, treaty, ordeal, precept, compact, doctrine, practice, juncture, covenant, occasion, boundary, contract, harangue, condition, direction, agreement, observance, indication, engagement, convention, opportunity, declaration, stipulation, arrangement, circumstances, solemn address, coming together, intercourse with, established custom, account [computer], protocol [computer], conditions of agreement, demonstrated conclusion, appointed or proper time, conventional rule or usage, end of trouble or distress, meeting or a place of meeting, right moment for doing anything, coming to a mutual understanding, conventional meaning or scope of a word, Vedic passage which is the repetition of another one
➠ 3|3|154|2 ⇢ सत्यः (सत्य) (पुं) ⇒ true, real, pure, valid, actual, honest, sincere, genuine, virtuous, truthful, faithful, effectual, intrinsical, azvattha tree, good. successful, authentic [true], uppermost of the seven lokas or worlds
➠ 3|3|154|2 ⇢ (सत्य) (स्त्री) ⇒ true, real, pure, valid, actual, honest, sincere, genuine, virtuous, truthful, faithful, effectual, intrinsical, azvattha tree, good. successful, authentic [true], uppermost of the seven lokas or worlds
➠ 3|3|154|2 ⇢ सत्यम् (सत्य) (नपुं) ⇒ true, real, pure, valid, actual, honest, sincere, genuine, virtuous, truthful, faithful, effectual, intrinsical, azvattha tree, good. successful, authentic [true], uppermost of the seven lokas or worlds
Related word(s):
परा_अपरासंबन्धः ➡ वचनम्
जातिः ➡ शब्दः
शब्दकल्पद्रुमः
Sanskritशपथः, (शप क्रोशे + “शीङ्शपिरुशमौति ।”उणा० ३ । ११३ । इति अथः ।) अनृतं वदन्घोरं नरकं यास्यामि इत्येवं रूपं मिथ्यानिर-मनम् । सत्यावधारणम् । इति साञ्झः । वाचाशरीरस्पर्शनम् । इति गोयीचन्द्रः ॥
शपथोदिव्यम् । इति रमानाथः । इति भरतः ॥
तत्-पर्य्यायः । शपनम् २ । इत्यमरः ॥
शपः ३ ।इति हेमचन्द्रः ॥
सत्यम् ४ समयः ५ शापः ६प्रत्ययः ७ अभिषङ्गः ८ । इति जटाधरः ॥
* ॥
चतुष्पादव्यवहारस्य क्रियापादाङ्गम् । यथा ।अथ शपथः ।“युक्तिष्वप्यवसन्नासु शपथैरेनमर्द्दयेत् ।अर्थकालवलापेक्षमग्न्यम्बुसुकृतादिभिः ॥
”अर्थस्य विवादास्पदस्य बलं बह्वल्पभावः ।कालस्य च बलं पुण्यापुण्यत्वम् । तदपेक्षं यथास्यादित्यर्थः । दूर्व्वाकरत्वस्य पुत्त्रादिस्पर्शस्यचाग्रे दर्शनीयत्वात् । अत्र मयैतत् कृतं न वाइति प्रतिज्ञामुच्चार्य्याग्नौ जले वा हस्तं प्रक्षि-पेत् । एतन्मिथ्यात्वे मम सुकृतं नश्येदिति वाब्रूयात् । न त्वग्निपरीक्षां जलपरीक्षां वा कुर्य्यात्इत्यभिप्रायवर्णनं युक्तम् । तस्या महाभियोग-विषयकत्वेन शपथसमभिव्याहारानर्हत्वात् ।सुकृतादिभिरित्यादिना दूर्व्वासत्याभ्युपग्रहः ।तथा च विष्णुः । सर्व्वेष्वेवार्थजातेषु मूल्यं कनकंप्रकल्पयेत् । तत्र कृष्णलोने शूद्रं दूर्व्वाकरंशापयेत् । द्विकृष्णलोने तिलकरम् । त्रिकृष्ण-लोने जलकरम् । चतुःकृष्णलोने स्वर्णकरम् ।पञ्चकृष्णलोने सीतोद्धृतमहीकरम् । सुवर्णार्द्धोनेकोषो देयः । शूद्रस्य यथासमये विहिता क्रियातथा द्बिगुणेऽर्थे राजन्यस्य त्रिगुणेऽर्थे वैश्यस्यचतुर्गुणेऽर्थे ब्राह्मणस्येति । कृष्णलः काञ्चन-रत्तिका तन्मूल्यादूने कृष्णलोने एवमन्यत्र ।मनुः ।“सत्येन शापयेद्विप्रं क्षत्त्रियं वाहनायुधैः ।गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्व्वैस्तु पातकैः ।पुत्त्रदारस्य वाप्येवं शिरांसि स्पर्शयेत् पृथक् ॥
”ब्राह्मणेन मयैतत् कृतं न कृतं वेति प्रतिज्ञा-मुच्चार्य्य सत्यमिति वक्तव्यम् । तथैव क्षत्त्रियेणवाहनायुधं स्प्रष्टव्यम् । तथैव वैश्येन गोबीज-काञ्चनानामन्यतमं स्प्रष्टव्यम् । शूद्रेण तु पूर्व्वोक्तंसर्व्वमेव स्प्रष्टव्यम् । तेषां वृथाकृतस्पर्शानांपातकहेतुत्वात् पातकशब्देन निर्द्देशः । हला-युधोऽप्येवम् । दैवक्रियाविषयमाह नारदः ।“अरण्ये निर्ज्जने रात्रावन्तर्वेश्मनि साहसे ।न्यासापहरणे चैव दिव्या सम्भवति क्रिया ॥
”बृहस्पतिः ।“देवब्राह्मणपादांश्च पुत्त्रदारशिरांसि च ।एते तु शपथाः प्रोक्ता मनुना स्वल्पकारणे ।साहसेष्वभिशापे च दिव्यानि तु विशोधनम् ॥
”अत्र शपथदिव्ययोः पृथक्त्वप्रतीतेः शपथे नदिव्यधर्म्माः । किन्तु वैधे कर्म्मणि तत्र शौचार्थंस्नानाचमनादि कार्य्यम् । दिव्यानि तु दिव्यतत्त्वेकथितानि नात्र लिखितानि । अत्राभियुक्तेनशपथः कर्त्तव्य इत्युत्सर्गः । उभयेच्छया अभि-योक्तापि । इत्याह नारदः ।“अभियोक्ता शिरोवर्त्ती सर्व्वत्रैव प्रकीर्त्तितः ।इच्छयान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः ॥
”इतरः शपथकर्त्तृभिन्नः । तथा कात्यायनः ।“आचतुर्द्दशकादह्नो यस्य नो राजदैविकम् ।व्यसनं जायते घोरं स ज्ञेयः शपथे शुचिः ॥
”व्यसनमापत् । धोरमतिपीडाकरम् । तथा चकोषाधिकारे यस्य पश्येदित्यनुवृत्तौ विष्णुः ।“रोगोऽग्निर्ज्ञातिमरणं राजातङ्कमथापि वा ।तमशुद्धं विजानीयात्तथा शुद्धं विपर्य्ययात् ॥
”कात्यायनः ।“तस्यैकस्य न सर्व्वस्य जनस्य यदि सम्भवेत् ।रोगोऽग्निर्ज्ञातिमरणमृणं दद्यात् दमञ्च सः ॥
ज्वरातिसारविस्फोटगूढास्थिपरिपीडनम् ।नेत्ररुग्गलरोगश्च तथोन्मादः प्रजायते ॥
शिरोरुगगुदभङ्गश्च दैविका व्याधयो नृणाम् ॥
”तस्यैकस्येति न तु देशव्यापकमरणादिः । मनुः ।“न वृथा शपथं कुर्य्यात् स्वल्पेऽप्यर्थे नरो बुधः ।वृथा हि शपथं कुर्व्वन् प्रेत्य चेह च नश्यति ॥
कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने ।ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥
”कामिनीष्विति रहसि कामिनीसन्तोषार्थं वृथाशपथः । एवं विवाहसिद्ध्यर्थं गोग्रासार्थंआवश्यकहोमेन्धनार्थं ब्राह्मणरक्षार्थमङ्गीकृत-धनादौ । यमः ।“वृथा तु शपथं कृत्वा कीटस्य वधसंयुतम् ।अनृतेन च युज्येत वधेन च तथा नरः ।तस्मान्न शपथं कुर्य्यान्नरो मिथ्यावधेप्सितम् ॥
”कीटस्येति प्राणिमात्रोपलक्षणम् । तद्बधपापेनवृथाशपथकर्त्ता युज्यत इत्यर्थः । इति व्यवहार-तत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
