| YouTube Channel

शप (zapa)

 
शब्दसागरः
English
शप
m.
(-पः)
1. An oath.
2. An imprecation, a curse, cursing.
3. A
corpse
also शव.
E.
शप् to curse,
aff.
अच्
Yates
English
शप (पः) 1.
m.
An oath
a curse
a corpse.
Spoken Sanskrit
English
शप - zapa -
m.
- imprecation
शप - zapa -
m.
- curse
शप - zapa -
m.
- corpse
शप - zapa -
m.
- penis
शप - zapa -
m.
- oath
Wilson
English
शप r. 1st cl. (शपति-ते) r. 4th cl. (शप्यति-ते)
1 To revile, to wish evil or imprecations on, to curse, to swear.
2 To take an oath.
शप
m.
(-पः)
1 An oath.
2 An imprecation, a curse, cursing.
3 A corpse
also शव.
E.
शप to curse,
aff.
अच्.
Apte
English
शपः [śapḥ], [शप्-अच्]
A curse, an imprecation.
An oath.
A corpse (wrong reading for शव).
Apte 1890
English
शपः शप्-अच् 1 A curse, an imprecation.
2 An oath.
Monier Williams Cologne
English
शप
m.
a curse, imprecation, oath (= शपथ),
L.
a corpse (w.r. for शव, q.v.),
W.
N.
of a man g. अश्वादि.
Monier Williams 1872
English
शप, अस्, m. an imprecation, curse, cursing
an
oath
a corpse, (for शव, q. v.)
Benfey
English
शप शप् + अ,
m.
1. An impreca-
tion.
2. An oath.
Apte Hindi
Hindi
शप:
पुं*
- शप् + अच्
"अभिशाप, सरापना, कोसना"
शपः
पुं*
- शप् + अच्
"शपथ, सौगन्ध"
L R Vaidya
English
Sapa {% m. %} 1. An imprecation, a curse
2. an oath.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
शप्
मूलधातुः:
शप
धात्वर्थः:
आक्रोशे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
शपति-ते
धातुः:
शप्
मूलधातुः:
शप
धात्वर्थः:
आक्रोशे
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
शप्यति-ते
धातुप्रदीपः
Sanskrit
शपँ शप आक्रोशे
- शपति शपते तस्मै शपते शप्ता शापः शपनः शबलः शबली शबलगुः रञ्जिशपी दिवादावपि पठ्येते उभयपदिनौ ।। 1008 ।।
शपँ शप आक्रोशे
- शप्यति शप्यते शपति शपत इति भ्वादिपाठात् 62
अभिधानचिन्तामणिः
Sanskrit
--source--
व्यवहारो विवादः स्याच्छपथः शपनं शपः २६२
-wordlist-
व्यवहार (पुं), विवाद (पुं), शपथ (पुं), शपन (क्ली), शप (पुं)
शब्दकल्पद्रुमः
Sanskrit
शप, क्रोशे इति कविकल्पद्रुमः ।(दिवा०-भ्वा०-च-उभ०-सक०-अनिट् ।) द्बौ तालव्यादी ञ, शप्यतिशप्यते औ, शप्ता औ, अशाप्सीत् ञ, शपति शपते क्रोश उक्तिविशेषः निर्भर्त्सन-मिति चतुर्भुजः सहस्रशोऽसौ शपथानपश्यत् ।क्रोशो भ्वादिपक्षे गालिदानम् शपते ञित्वे-ऽपि शपथाशीर्गत्यनुकारेति नियमात् शपथेआत्मनेपदं अन्यत्र परस्मैपदम् कृष्णाय शपतेगापी प्रजेति त्वां शशाप सा इति रघौ ।सख्यः शपामि यदि किञ्चिदपि स्मरामि इतिवाचा शरीरस्पर्शनाभावादिति पाणिनीयाः ।केचित्तु शपथे नित्यमात्मनेपदं अन्यत्र विभा-षया इत्याहुः तेन प्रतिवाचमदत्त केशवःशपमानाय चेदिभूभृते इति माघः इतिदुर्गादासः
शप, क्रोशे इति कविकल्पद्रुमः ।(दिवा०-भ्वा०-च-उभ०-सक०-अनिट् ।) द्बौ तालव्यादी ञ, शप्यतिशप्यते औ, शप्ता औ, अशाप्सीत् ञ, शपति शपते क्रोश उक्तिविशेषः निर्भर्त्सन-मिति चतुर्भुजः सहस्रशोऽसौ शपथानपश्यत् ।क्रोशो भ्वादिपक्षे गालिदानम् शपते ञित्वे-ऽपि शपथाशीर्गत्यनुकारेति नियमात् शपथेआत्मनेपदं अन्यत्र परस्मैपदम् कृष्णाय शपतेगापी प्रजेति त्वां शशाप सा इति रघौ ।सख्यः शपामि यदि किञ्चिदपि स्मरामि इतिवाचा शरीरस्पर्शनाभावादिति पाणिनीयाः ।केचित्तु शपथे नित्यमात्मनेपदं अन्यत्र विभा-षया इत्याहुः तेन प्रतिवाचमदत्त केशवःशपमानाय चेदिभूभृते इति माघः इतिदुर्गादासः
शपः,
पुं,
शपथः इति हेमचन्द्रः
निर्भर्त्सनम् ।गालिदानम् इति शपधात्वर्थदर्शनात्
वाचस्पत्यम्
Sanskrit
शप आक्रोशे वा
भ्वा०
पक्षे दिवा०
उभ०
सक०
अनिट् शपति ते शप्यति ते अशाप्सीत्
क्षीरतरङ्गिणी
Sanskrit
शपँ शप आक्रोशे
- (अर्थविवरणम्) आक्रोशो विरुद्धानुध्यानम्
वाचा शरीरस्पर्शने चानेकार्थत्वात् शपते, शपति शप उपलम्भने (1321 वा0) तङ्, श्लाघह्नुङ्स्थाशपां (1434) इति सम्प्रदानम् शपते चैत्राय शपति रिपुं पुरोधाः शीङ्शपिरुहि (तु0उ03113) इत्यथच्-शपथः शाशपिभ्यां ददनौ (उ0 497) शब्दः शपेर्बश्च (उ0 1105) इति कलः शबलो वर्णः 970
शपँ शप आक्रोशे
- शप्यते, शप्यति शप्ता शप्त्वा भ्वादौ (1727) शपति 59
धातुवृत्तिः
Sanskrit
शपँ शप (अर्थः) आक्रोशे
(अर्थविवरणम्) इहाक्रोशो विरुद्धानुध्यानम्
( शपति शशाप शेपतुः शशप्थ शेपिथ ) क्रादिनियमादिट् थलि भारद्वाजनियमादिड्विकल्पः ( शप्ता शप्स्यति अशपत् शपेत् शप्यात् अशाप्सीत् अशाप्ताम् शपते शेपे शप्तासे शपताम् अशपत शपेत शप्सीष्ट अशप्त अशप्साताम् शिशप्सति शाशप्यते शाशप्ति शापयति अशीशपत् ) देवदत्ताय शपते देवदत्तं शपथेन किं चित्प्रापयतीत्यर्थः "शप उपालम्भने'' इति अकर्त्रभिप्राये तङ्, "श्लाघह्नुङ्'' इत्यादिना ज्ञीप्स्यमानस्य संप्रदानत्वाच्चतुर्थी, वाचा शरीरस्य स्पर्शनमुपलम्भनमिति वृत्तिः अत्र हरदत्तः त्वत्पादौ स्पृशामि नैतन्मयाकृतमित्येतद्रपः शपथविशेष इति भागवृत्तिकारस्य तूपलंभनं प्रकाशनं, देवदत्ताय शपते किंचित्प्रकाशयतीत्यर्थः त्वचा शरीरस्य स्पर्शनमित्यदः कस्यचित्काव्यमिति कैयटे चोपलम्भनं प्रकाशनमिति शाकटायनस्तूपलम्भनं प्रकाशनं देवदत्ताय शपतइत्येवं भूतोऽसाविति देवदत्तमाचष्ट इत्यर्थः अथवा स्वाभिप्रायस्य परत्राविष्करणमुपलम्भनं शपथः देवदत्ताय शपते वाचा मात्रादिशरीरस्पर्शनेन देवदत्ते स्वाभिप्रायं प्रकाशयतीत्यर्थ इति चन्द्रभोजकौमारास्तु प्रोषितस्य भावयोरुपलब्धव्ययोः किंचिदासेवनमुपम्भनम्, देवदत्ताय शपतइति प्रोषितस्य देवदत्तस्य भावाभावायोरुपलब्धयोः किं चिदासेवतइत्यर्थः भोजादयस्तु शपः शपथइति "शीङ्शपिगमिवञ्चिविजिप्राणिभ्योऽथः'' इत्यथः प्रत्ययः ( शबलः ) "शपेर्बश्च''इति कलप्रत्यये बकारश्चान्तादेशः ( शब्दः ) "शाशपिभ्यान्ददनौ'' इति दन्, "शब्दवैर''इति निपातनात् बत्वं, शब्दं करोति शब्दायते "शब्दवैर'' इति क्यङ् शब्दं करोति शाब्दिकः शब्ददर्दुरं करोति'' इति द्वितीयान्तात्करोतीत्यर्थे ठक् मा शब्द इत्याह माशब्दिकः [तदाहेति माशब्दादिभ्य उपसंख्यानम्]इति ठक् एवं नैत्यशब्दिक इत्यादि अयं दिवादावपि 980
शपँ शप (अर्थः) आक्रोशे
अयमपि भौवादिकवत् श्यस्तङौ विशेषौ ( शप्यते, शप्यति ) इत्यादि नहादयस्त्रयोऽनुदात्ताः स्वरितेतः 60
कृदन्तरूपमाला
Sanskrit
1 {@“शप आक्रोशे”@} 2 ‘आक्रोशे शप्यते शप्येत्, शपते शपतीति च।
उपालम्भे शपेर्वाक्यात्तङि स्यात् शपते पदम्।।’ 3 इति देवः।
‘आक्रोशो-विरुद्धानुध्यानम्’ इति क्षीरस्वामी।
शापकः-पिका, शापकः-पिका, शिशप्सकः-प्सिका, शाशपकः-पिका
शप्ता-त्री, शापयिता-त्री, शिशप्सिता-त्री, शाशपिता-त्री
शपन्-न्ती, शापयन्-न्ती, शिशप्सन्-न्ती
-- -- शप्स्यन्-न्ती-ती, शापयिष्यन्-न्ती-ती
-- -- १। ‘दाधेट्सिशदसदो रुः’ 4 इति रुप्रत्ययः ताच्छीलिकः।
5 कृष्णाय 6 शपमानः, शापयमानः, शिशप्समानः, शाशप्यमानः
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकतपतिवत् 7 ऊह्यानि।
शपनम्, 8 शप्यम्, 9 शपथः, 10 शब्दः, शाब्दिकः, 11 शबलः, 12 शप्वः, इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्ति।
प्रासङ्गिक्यः
01
=>
(१६८३)
02
=>
(१-भ्वादिः-१०००। अक। अनि। उभ।)
03
=>
(श्लो। १३२)
04
=>
(३-२-१५९)
05
=>
[पृष्ठम्१२८६+ २८]
06
=>
[[१। धातोरुभयपदित्वेऽपि ‘शप उपलम्भने’ (वा। १-३-२१) इत्यकर्त्रंभिप्रायेऽपि तङेव। ‘श्लाघह्नुङ्स्थाशपां--’ (१-४-३४) इति ज्ञीप्स्यमानस्य सम्प्रदानता। तेन ‘कृष्णाय’ इत्यत्र चतुर्थी। वार्तिके ‘वाचा शरीरस्य स्पर्शनम् = उपलम्भनम्’ इति काशिका। अत्र हरदत्तः “-- ‘त्वत्पादौ स्पृशामि--नैतत् मया कृतम्’ इत्येतद्रूपः शपथविशेष उपलम्भः” इति। कैयटस्तु ‘उपलम्भनम् = प्रकाशनम्’ इत्याह। शाकटायनस्तु प्रकाशनार्थमङ्गीकृत्य, ‘स्वाभिप्रायस्य परत्र आविष्करणं तत्’ -- इत्यप्याह। “चन्द्रभोजकौमारास्तु ‘प्रोषितस्य देवदत्तस्य भावाभावयो- रुपलब्धव्ययोः किञ्चिदासेवनमुपलम्भनम्। ‘देवदत्ताय शपते--’ प्रोषितस्य देवदत्तस्य भावाभावयोरुपलब्धव्ययोः किञ्चिदासेवते इत्यर्थः--” इति धातु- वृत्तिः। विस्तरस्तु माधवीये द्रष्टव्यः।]]
07
=>
(७०३)
08
=>
[[२। ‘पोरदुपधात्’ (३-१-९८) इति ण्यदपवादो यत्प्रत्ययः।]]
09
=>
[[३। ‘शीङ्शपि--’ (द। उ। ६-३८) इत्यथप्रत्ययः। शपथः = प्रतिज्ञा।]]
10
=>
[[४। ‘शाशपिभ्यां--’ (द। उ। ६-४८) इति दन्प्रत्ययः। ‘शब्दवैर--’ (३-१-१७) इति निपातनात् पकारस्य दकारः।]]
11
=>
[[५। ‘शपेर्बश्च’ (द। उ। ८-१०८) इति कलप्रत्ययः, पकारस्य बकारश्च।]]
12
=>
[[६। ‘शपेर्वन्’ (द। उ। ८-१३१) इति वन्प्रत्ययः। शप्यते इति शप्वः = आक्रोशः।]]
1 {@“शप आक्रोशे”@} 2 ‘आक्रोशे शप्यते शप्येत् शपते शपतीति च।
3 उपालम्भे शपेर्वाक्यात्तङि, स्याच्छपते पदम्।।’ 4 इति देवः।
शापकः-पिका, शापकः-पिका, शिशप्सकः-प्सिका, शाशपकः-पिका
शप्ता-त्री, शापयिता-त्री, शिशप्सिता-त्री, शाशपिता-त्री
शप्यन्-न्ती, शापयन्-न्ती, शिशप्सन्-न्ती
-- इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकतपतिवत् 5 ऊह्यानि।
6
प्रासङ्गिक्यः
01
=>
(१६८४)
02
=>
(४-दिवादिः-११६८। अक। अनि। उभ।)
03
=>
[[७। ‘शप उपलम्भने’ इत्येव भाष्यादिषु पाठः। ‘उपालम्भने’ इत्यपि प्रायपाठ इति पुरुषकारे प्रतिपादितम्। प्रकृते दैवश्लोकेऽपि ‘उपालम्भे’ इत्येव दृश्यते। पाठनिर्णये विद्वांसः प्रमाणम्।]]
04
=>
(श्लो। १३२।)
05
=>
(७०३)
06
=>
[पृष्ठम्१२८७+ २९]
Burnouf
French
शप शप
m.
serment
malédiction.
Cadavre, cf.
शव।
शपथ
m.
serment, promesse par serment.
Malédiction.
शपन
n.
mms.