| YouTube Channel

शन्सु (zansu)

 
धातुप्रदीपः
Sanskrit
शन्सुँ शंसु स्तुतौ
- कथने शंसति नृशंसः क्रूरः ब्राह्मणाच्छंसी ऋत्विक् ब्राह्मणाद् वेदभागादाकृष्य शंसति स्तौतीति ब्राह्मणाच्छंसि (6/3/2 वा) इत्युपसंख्यानादलुक् प्रशंसा शस्तम् शंस्यम् शस्यम् ।। 729 ।।
क्षीरतरङ्गिणी
Sanskrit
शन्सुँ शंसु स्तुतौ
- शंसति शस्यते शंस्त्वा, शंसित्वा शंसिदुहिगुहिभ्यो वा (31109 वा0) इति वक्तव्यात् क्यप्-शस्यम् शंस्येर्ण्यद् अपीष्यते-शंस्यम् नृशंसः उणादौ शंस्ता पशुविशसिता अत एव शसु स्तुतौ इति दुर्गः 709
धातुवृत्तिः
Sanskrit
शन्सुँ शंसु (अर्थः) स्तुतौ
अयं दुर्गः द्वावपि तालव्योष्मादी ( शंसति शशंस शंसितेत्यादि ) आशिषि कित्त्वात् "अनिदिताम्'' इत्युपधालोपे (शस्यात् शिशंसिषति शाशस्यते ) ङित्त्वान्न्लोपः(शाशंस्ति) यङो लुका लुप्तत्वात् प्रत्ययलक्षणाभावान्नलोपाभावः (शाशसस्तः) इत्यादौ तु तसादीनां ङित्त्वान्न्लोपः (शासधि) इत्यत्र हेरपित्त्वान् ङित्त्वान्नलोपे "धि च'' इति सलोपः (शंसयति अशशंसत् शस्यम् ) [शंसिदुहिगुहिभ्यो वेति वक्तव्यम् ] इति नलोपः क्यबभावे ण्यति (शंस्यम् शंसित्वा शस्त्वा ) उदित्त्वादिङ्विकल्प इति "न क्त्वा सेट्'' इत्यकित्त्वान्न्लोपाभावः (शस्तम्) "यस्य विभाषा'' इति नेट् नॄन् शंसतीति (नृशंसः) कर्मण्यण् नरा एनं शंसन्ति नरा अस्मिव्रासीनाः शंसन्तीति वा (नराशंसः, ) घञ् अग्रिर्द्देशविशेषो वा वनस्पत्यादिषु पाठात्पूर्वपदस्य दीर्घः ब्रह्मणानि शंसतीति (ब्राह्मणाच्छंसी) रूढिरियमृत्विग्विशेषस्य "सुप्यजातौ'' इति णिनिः [ ब्राह्मणाच्छंसिन उपसंख्यानम् ] इत्यलुक् अस्मादेव निर्देशात् द्वतीयार्थे पञ्चमी ( श्रेष्ठः ज्येष्ठः श्रेयान् ज्यायान् ) ( सूत्रम्) प्रशस्यस्य श्रः (इति सूत्रम्) ( सूत्रम्) ज्य (इति सूत्रम्) इत्यतिशायनिकयोरजाद्योः श्रज्यावादेशौ भवतः आदेशयोरकारोच्चारणसमार्थ्याट्टिलोपो भवति ज्यायानित्यत्र "ज्यादादीयसः'' इति ज्यशब्दात्परस्य ईयसुन आदेराकारः श्रेयसोपत्वं (श्रायसः) "देविकार्शिशपादित्यवाङ्दीर्घसत्रश्रेयसामात्'' इति वृद्धिनिमित्तात्परत्वादेकारस्य स्थाने आकारादेशः प्रशस्यमाचष्टे (श्रापयति ज्यापयति) [ तत्करोति ] इति णिचि णाविष्ठवदिति श्रज्यादेशयोर्वृद्धौ पुक् 714