| YouTube Channel

शनिचक्र (zanicakra)

 
Monier Williams Cologne
English
शनि—चक्र
n.
Saturn's diagram (a peculiar diagram used to foretell good or bad fortune
it is marked with 27 compartments to represent the Nakṣatras passed through by the planet Saturn),
MW.
Apte Hindi
Hindi
शनिचक्रम्
नपुं*
- -
"‘शनि की स्थिति से’शुभाशुभ जानने का एक आलेख, चित्र"
Aufrecht Catalogus Catalogorum
English
शनिचक्र jy. Stein 173.
शब्दकल्पद्रुमः
Sanskrit
शनिचक्रं,
क्ली,
(शनेश्चक्रम् ।) नृणां शुभाशुभ-ज्ञानार्थशनिभोग्यनक्षत्रादिसप्तविंशतिनक्षत्रयुक्त-नराकारचक्रम् यथा, --“शनिचक्रं नराकारं लिखित्वा सौरिभादितः ।नाम ऋक्षं भवेद्यत्र फलं तत्र शुभाशुभम्
एकं मुखे दक्षहस्ते चत्वारि षट् पदद्बये ।हृदि पञ्च करे वामे चत्वारि मस्तके त्रयम्
द्वयं नेत्रद्बये गुह्ये द्वयं तत्र न्यसेद्बुधः ।मुखे हानिर्जयो दक्षे भ्रमः पादे श्रियो हृदि ।वामे भीर्मस्तके राज्यं नेत्रे सौख्यं मृतिर्गुदे
तूर्य्याष्टद्बादशे ऋक्षे यदा विघ्नकरः शनिः ।तदा सौख्यं वपुःस्थन्तु हृच्छीर्षे नेत्रदक्षयोः
तृतीयैकादशे षष्ठे यदा सौख्यकरः शनिः ।तदा विघ्नः शरीरस्थो गुह्ये वक्त्रेऽङ्घ्रिवामयोः
यस्य पीडाकरः शौरिस्तस्य चक्रे फलन्त्विदम् ।लिखित्वा कृष्णद्रव्येण तैलमध्ये क्षिपेत्ततः
निक्षिप्य भूमिमध्यस्थं कृष्णपुष्पैः प्रपूजयेत् ।तुष्टिं याति सन्देहः पीडां त्यक्त्वा शनैश्चरः
”इति ज्योतिस्तत्त्वम्