शनि: (zani:)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishशनि - zani - - Saturn [ planet ]
तीक्ष्णांशुतनय - tIkSNAMzutanaya - - Saturn
शनिवार - zanivAra - - Saturn's day
शनिवासर - zanivAsara - - Saturn's day
अर्कज - arkaja - - planet Saturn
अर्कतनय - arkatanaya - - planet Saturn
अर्कपुत्र - arkaputra - - planet Saturn
अर्कसूनु - arkasUnu - - planet Saturn
असित - asita - - planet Saturn
कोल - kola - - planet Saturn
खरांशुतनय - kharAMzutanaya - - planet Saturn
ग्रहनायक - grahanAyaka - - planet Saturn
छायातनय - chAyAtanaya - - planet Saturn
दिनकरतनय - dinakaratanaya - - planet Saturn
दिनेशात्मज - dinezAtmaja - - planet Saturn
दिवाकरसुत - divAkarasuta - - planet Saturn
निलाम्बर - nilAmbara - - planet Saturn
नीलवसन - nIlavasana - - planet Saturn
नीलवासस् - nIlavAsas - - planet Saturn
भानुज - bhAnuja - - planet Saturn
शनि - zani - - planet Saturn or its regent
शनि - zani - - Saturn [ planet ]
शनि zani Saturn [ planet ]
तीक्ष्णांशुतनय tIkSNAMzutanaya Saturn
शनिवार zanivAra Saturn's day
शनिवासर zanivAsara Saturn's day
अर्कज arkaja planet Saturn
अर्कतनय arkatanaya planet Saturn
अर्कपुत्र arkaputra planet Saturn
अर्कसूनु arkasUnu planet Saturn
असित asita planet Saturn
कोल kola planet Saturn
खरांशुतनय kharAMzutanaya planet Saturn
ग्रहनायक grahanAyaka planet Saturn
छायातनय chAyAtanaya planet Saturn
दिनकरतनय dinakaratanaya planet Saturn
दिनेशात्मज dinezAtmaja planet Saturn
दिवाकरसुत divAkarasuta planet Saturn
निलाम्बर nilAmbara planet Saturn
नीलवसन nIlavasana planet Saturn
नीलवासस् nIlavAsas planet Saturn
भानुज bhAnuja planet Saturn
Apte
Englishशनिः [śaniḥ], [शो-अनि किच्च Tv.]
The planet Saturn (the son of the sun and represented as of a black colour or dressed in dark coloured clothes).
Saturday.
of Śiva. -चक्रम् Saturn's diagram (used for foretelling). -जम् black pepper. -प्रदोषः a term for the (evening) worship of Śiva performed on the thirteenth day of a lunar fortnight when it falls on a Saturday. -प्रसूः an epithet of Chhāyā, wife of the sun
संज्ञा. -प्रियम् a sapphire or emerald. -वारः, -वासरः Saturday.
Apte 1890
Englishशनिः [शो-अनि किच्च Tv.] 1 The planet Saturn (the son of the sun and represented as of a black colour or dressed in dark-coloured clothes).
2 Saturday.
3 N. of Śiva.
Comp.
जं black pepper.
प्रदोषः a term for the (evening) worship of Śiva performed on the thirteenth day of a lunar fortnight when it falls on a Saturday.
प्रसूः f. an epithet of Chāyā, wife of the sun
cf. संज्ञा.
प्रियं a sapphire.
वारः,
वासरः Saturday.
Monier Williams Cologne
EnglishMonier Williams 1872
Englishशनि शनि, इस्, m. (probably connected with
शनैस् below), ‘slow-moving’ [cf. मन्द], the planet
Saturn or its regent (fabled as the offspring of the
Sun
he is represented as of a black colour or dressed
in dark-coloured clothes
cf. नील-वासस्)
N. of Śiva
of a son of Atri (according to the Vāyu-Purāṇa).
—शनि-
चक्र, अम्, n. an astrological diagram in the form
of a man used to foretell good or bad fortune, (it is
marked with twenty-seven compartments to repre-
sent the Nakṣatras passed through by the planet
Saturn.)
—शनि-ज, अम्, n. ‘Saturn-produced, ’ black
pepper.
—शनि-प्रदोष, अस्, m. a term for the
worship performed to Śiva on the thirteenth day of
the waxing or waning moon when it falls on a
Saturday.
—शनि-प्रसू, ऊस्, f. ‘mother of Saturn, ’
epithet of Chāyā, wife of the Sun.
—शनि-प्रिय,
अम्, n. ‘dear to Saturn, ’ a dark-coloured stone, the
emerald or sapphire (= नील-मणि).
—शनि-वार
or शनि-वासर, अस्, m. Saturn's day, Saturday.
Benfey
EnglishApte Hindi
Hindiशनि:
- शो + अनि किच्च
शनिग्रह
शनि:
- शो + अनि किच्च
शनिवार
शनि:
- शो + अनि किच्च
शिव ।
L R Vaidya
Englishअभिधानचिन्तामणिः
Sanskritशुक्रो मघाभवः काव्य उशना भार्गवः कविः ॥ ११९ ॥
षोडशार्चिर्दैत्यगुरुर्धिष्ण्यः शनैश्चरः शनिः ।
छायासुतोऽसितः सौरिः सप्तार्ची रेवतीभवः ॥ १२० ॥
मन्दः क्रोडो नीलवासाः स्वर्भाणुस्तु विधुंतुदः ।
तमो राहुः सैंहिकेयो भरणीभूरथाहिकः ॥ १२१ ॥
शुक्र (पुं), मघाभव (पुं), काव्य (पुं), उशनस् (पुं), भार्गव (पुं), कवि (पुं), षोडशार्चिस् (पुं), दैत्यगुरु (पुं), धिष्ण्य (पुं), शनैश्चर (पुं), शनि (पुं), छायासुत (पुं), असित (पुं), सौरि (पुं), सप्तार्चिस् (पुं), रेवतीभव (पुं), मन्द (पुं), क्रोड (पुं), नीलवासस् (पुं), स्वर्भाणु (पुं), विधुन्तुद (पुं), तमस् (पुंक्ली), राहु (पुं), सैंहिकेय (पुं), भरणीभू (पुं)
वैजयन्तीकोषः
SanskritWord: शनिः
Root: शनि
Gender: पुं
Number: all
अर्थः ⇒ शनिग्रहः
Meaning(s):
⇒ Planet Saturn
Shloka(s):
2|1|35|1 ► मन्दः खोडोऽसितः क्रोडश्छायापुत्रः शनैश्चरः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|35|2 ► सौरिः स्थिरगति कोणो दीर्णाङ्गो युगवर्तकः॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|36|1 ► श्रुतकर्मा नीलवासा वक्रः कोलः स्थिरः शनिः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
➠ 2|1|35|1 ⇢ मन्दः (मन्द) (पुं) ⇒ Epithet of Śani ⇒ शनिग्रहः
➠ 2|1|35|1 ⇢ खोडः (खोड) (पुं) ⇒ Epithet of Śani ⇒ शनिग्रहः
➠ 2|1|35|1 ⇢ असितः (असित) (पुं) ⇒ Epithet of Śani ⇒ शनिग्रहः
➠ 2|1|35|1 ⇢ क्रोडः (क्रोड) (पुं) ⇒ Epithet of Śani ⇒ शनिग्रहः
➠ 2|1|35|1 ⇢ छायापुत्रः (छायापुत्र) (पुं) ⇒ Epithet of Śani ⇒ शनिग्रहः
➠ 2|1|35|1 ⇢ शनैश्चरः (शनैश्चर) (पुं) ⇒ Epithet of Śani ⇒ शनिग्रहः
➠ 2|1|35|2 ⇢ सौरिः (सौरि) (पुं) ⇒ Epithet of Śani ⇒ शनिग्रहः
➠ 2|1|35|2 ⇢ स्थिरगतिः (स्थिरगति) (पुं) ⇒ Epithet of Śani ⇒ शनिग्रहः
➠ 2|1|35|2 ⇢ कोणः (कोण) (पुं) ⇒ Epithet of Śani ⇒ शनिग्रहः
➠ 2|1|35|2 ⇢ दीर्णाङ्गः (दीर्णाङ्ग) (पुं) ⇒ Epithet of Śani ⇒ शनिग्रहः
➠ 2|1|35|2 ⇢ युगवर्तकः (युगवर्तक) (पुं) ⇒ Epithet of Śani ⇒ शनिग्रहः
➠ 2|1|36|1 ⇢ श्रुतकर्मा (श्रुतकर्मन्) (पुं) ⇒ Epithet of Śani ⇒ शनिग्रहः
➠ 2|1|36|1 ⇢ नीलवासः (नीलवासस्) (पुं) ⇒ Epithet of Śani ⇒ शनिग्रहः
➠ 2|1|36|1 ⇢ वक्रः (वक्र) (पुं) ⇒ Epithet of Śani ⇒ शनिग्रहः
➠ 2|1|36|1 ⇢ कोलः (कोल) (पुं) ⇒ Epithet of Śani ⇒ शनिग्रहः
➠ 2|1|36|1 ⇢ स्थिरः (स्थिर) (पुं) ⇒ Epithet of Śani ⇒ शनिग्रहः
➠ 2|1|36|1 ⇢ शनिः (शनि) (पुं) ⇒ Planet Saturn ⇒ शनिग्रहः
Related word(s):
जातिः ➡ ग्रहः
Mahabharata
EnglishŚani = Śiva (1000 names^2).
पुराणम्
Englishशनि / ŚANI (śanaiścara-saturn) .1) General. śani is the son of sūrya by chāyā, the maid-servant of saṁjñā. sūrya had three sons by chāyā, manu, tapatī and śani. (See under chāyā).2) Other information. (i) śani worships brahmā in Brahmasabhā. (Sabhā Parva, Chapter 11, Verse 29).(ii) śani is very effulgent and intense in his form and character. When śani threatens the star rohiṇī, great disasters occur on earth. (Udyoga Parva, Chapter 143, Verse 8).(iii) śani will incarnate as manu in the coming yuga. (śānti Parva, Chapter 349, Verse 55).(iv) śani is one of the planets to be daily worshipped. (anuśāsana parva, Chapter 165, Verse 17).(v) In the battle between śiva and tripura, śani mounted in a chariot clashed with Narakāsura. (bhāgavata, 6th skandha).
शब्दकल्पद्रुमः
Sanskritशनिः, रव्यादिनवग्रहान्तर्गतसप्तमग्रहः । तत्प-र्य्यायः । सौरिः २ शनैश्चरः ३ । इत्यमरः ॥
नीलवासाः ४ मन्दः ५ छायात्मजः ६ । इतित्रिकाण्डशेषः ॥
पातङ्गिः ७ ग्रहनायकः ८छायासुतः ९ भास्करिः १० नीलाम्बरः ११ ।इति शब्दरत्नावली ॥
आरः १२ क्रोडः १३वक्रः १४ कोलः १५ सप्तांशुः १६ पङ्गुः १७ ।इति जटाधरः ॥
कालः १८ सूर्य्यपुत्त्रः १९असितः २० । इति ज्योतिस्तत्त्वम् ॥
अस्यवर्णः कृष्णः । पश्चिमदिङ्नपुंसकान्त्यजजातितमो-गुणकषायरसमकरकुम्भराशिनीलकान्तमणिसौ-राष्ट्रदेशानामधिपतिरयम् । कश्यपमुनिसन्तानः ।शूद्रवर्णः । सूर्य्यमुखः । चतुरङ्गुलपरिमाणः ।कृष्णवर्णवस्त्रः । गृध्रवाहनः । सूर्य्यपुत्त्रः । चतु-र्भुजः । भल्लवाणवरशूलधनुर्धारी । अस्याधि-देवता यमः । प्रत्यधिदेवता प्रजापतिः । इतिग्रहयागतत्त्वबृहज्जातकादयः ॥
अपि च ।“शनिर्विहङ्गोऽनिलवन्यवन्ध्याशूद्राङ्गना धातुसमः स्थिरश्च ।क्रूरः प्रतीची तुवरोऽतिवृद्धो-ऽकरक्षितीट् दीर्घसुनीललौहम् ॥
”इति नीलकण्ठीयजातकम् ॥
* ॥
अस्योत्पत्तिर्यथा, --“मरीचेः कश्यपो जज्ञे तस्माज्जज्ञे विभावसुः ।तस्य भार्य्याभवत् संज्ञा पुत्त्री त्वष्टुः प्रजापतेः ॥
नातितेजोमयं रूपं सोढुं सालं विवस्वतः ।मायामयीं ततश्छायां सवर्णां निर्म्ममे स्वतः ॥
संज्ञोवाच ततश्छायां सवर्णे शृणु मे वचः ।अहं यास्यामि सदनं पितुस्त्वं पुनरत्र मे ।भवने वस कल्याणि निर्व्विशङ्कं ममाज्ञया ॥
इति च्छायां गृहे स्थाप्य संज्ञागात् पितुरा-लयम् ।मन्यमानोऽथ तां संज्ञां सवर्णायां तथा रविः ॥
सावर्णिं जनयामास मनुश्रेष्ठं महीपते ।शनैश्चरं द्बितीयञ्च सुतं भद्रां तृतीयिकाम् ॥
”इति पाद्मे स्वर्गखण्डे ११ अध्यायः ॥
तस्य क्रूरदृष्टेः कारणं यथा, --“एतस्मिन्नन्तरे तत्र द्रष्टुं शङ्करनन्दनम् ।आजगाम महायोगी सूर्य्यपुत्त्रः शनैश्चरः ॥
अत्यन्तानम्रवदन ईषन्मीलितलोचनः ।द्वारिणं शूलहस्तञ्च विशालाक्षमुवाच ह ॥
शनैश्चर उवाच ।शिवाज्ञया शिशुं द्रष्टुं यामि शङ्करकिङ्कर ।विष्णुप्रमुखदेवानां मुनीनामनुरोधतः ॥
विशालाक्ष उवाच ।आज्ञावहो न देवानां नाहं शङ्करकिङ्करः ।द्वारं दातुमशक्तोऽहं विना मन्मातुराज्ञया ॥
ददौ वर्त्म ग्रहेशाय चक्षुःकोणाज्ञया ततः ।शनिरभ्यन्तरं गत्वा ननामानम्रकन्धरः ॥
रत्नसिंहासनस्थाञ्च पार्व्वतीं सस्मितां मुदा ।नतं सूर्य्यसुतं दृष्ट्वा दुर्गा संभाष्य यत्नतः ।शुभाशिषं ददौ तस्मै पृष्ट्वा तत्कुशलं शुभा ॥
पार्व्वत्युवाच ।कथमानम्रवक्त्रस्त्वं श्रोतुमिच्छामि साम्प्रतम् ।कथं न पश्यसि मां साधो बालकञ्च ग्रहेश्वर ॥
शनिरुवाच ।सर्व्वे स्वकर्म्मणः साध्वि भुञ्जते वाञ्छितं फलम् ।शुभाशुभं वा यत् कर्म्म कोटिकल्पैर्न लुप्यते ॥
इतिहासं चातिगोप्यं शृणु शङ्करवल्लभे ।अकथ्यं जननीसाक्षाल्लज्जाजनककारणम् ॥
आबालात् कृष्णभक्तोऽहं कृष्णध्यानैकमानसः ।तपस्यासु रतः शश्वद्बिषये विरतः सदा ॥
पिता ददौ विवाहेन कन्यां चित्ररथस्य च ।अतितेजस्विनी शश्वत्तपस्यानुरता सती ॥
एकदा सा ऋतुस्नाता सुवेशं स्वं विधाय च ।रत्नालङ्कारसंयुक्ता मुनिमानसमोहिनी ॥
हरिपादं ध्यायमानं सा मां पश्येत्युवाच ह ।मत्समीपं समागत्य सस्मिताननलोचना ।शशाप मामपश्यन्तमृतुनष्टा स्वकोपतः ।बाह्यज्ञानविहीनञ्च ध्यानैकतानमानसम् ॥
न दृष्टाहं त्वया येन न कृतं ऋतुरक्षणम् ।त्वया दृष्टन्तु यद्यत्तु मूढ सर्व्वं विनश्यति ॥
अहञ्च विरते ध्याने तामतोषं पुरा सतीम् ।शापं मोक्तुं न शक्ता सा पश्चात्तापं चकार ह ॥
तेन मातर्न पश्यामि किञ्चिद्वस्तु स्वचक्षुषा ।ततः प्रभृति नम्रास्यः प्राणिहिंसाभयादहम् ॥
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे ११ अध्यायः ॥
* ॥
अस्य भोगकालो यथा, --“रविर्मासं निशानाथः सपाददिवसद्वयम् ।पक्षत्रयं भूमिपुत्त्रो बुधोऽष्टादश वासरान् ॥
वर्षमेकं सुराचार्य्यश्चाष्टाविंशदिनं भृगुः ।शनिः सार्द्धद्बयं वर्षं स्वर्भानुः सार्द्धवत्सरम् ॥
”इति ज्योतिस्तत्त्वम् ॥
तस्य जपमन्त्रो यथा, --“प्रणवं वाग्भवं मायां श्रीमुद्धृत्य शनैश्चरम् ।चतुर्थ्यन्तं मनुं प्रोक्तं रविसूनोर्नवाक्षरम् ॥
”ओँ ऐं ह्रीँ श्रीँ शनैश्चराय । इति रुद्रयामलम् ॥
ऊर्द्ध्वपाणिस्तन्मन्त्रं जपेत् । यथा, --“सूर्य्यारराहुमन्दानामूर्द्धपाणौ जपेद्वुधः ।सोमकेत्वोरधः पाण्योरन्येषां शुद्धपाणिकः ॥
”इति च रुद्रयामलम् ॥
तस्य होममन्त्रो यथा । ओँ शन्नो देवीरभीष्टयेशन्नो भवन्तु पीतये शंयोरभिस्रवन्तु नः । यथाशनैश्चरायेति पुनः शन्नो देवीति होमयेत् ।इत्युद्वाहतत्त्वधृतमत्स्यपुराणम् ॥
* ॥
वारविशेषः ।तत्र वारवेला यथा, --“कृतमुनियमशरमङ्गल-रामर्त्तुभास्करादियामार्द्धे ।प्रभवति हि वारवेलान शुभाशुभकार्य्यकरणाय ॥
” * ॥
तत्र कालवेला यथा, --“कालस्य वेला रवितः शराक्षि-कालानलागाम्बुधयो गजेन्दू ।दिने निशायामृतुवैदनेत्र-नगेषु रामा विधुदन्तिनौ च ॥
”तत्र कुलिकवेला यथा, --“षष्ठाष्टैकं दिनेशात् क्रमश इह दिने मन्त्रि-चण्डेश्वरोक्तःपूर्व्वे वारार्द्धयामः कुलिक इह परो मध्यमश्चेतिकालः ।”तद्दिने पूर्व्वदिग्गमननिषेधो यथा, --“शुक्रादित्यदिने न वारुणदिशं न ज्ञे कुजेचोत्तरांमन्देन्दोश्च दिने न शक्रककुभं याम्यां गुरौ नव्रजेत् ॥
” * ॥
तत्र पथमरजोयोगे दोषो यथा, --“आदित्ये विधवा नारी सोमे चैव पतिव्रता ।वेश्या मङ्गलवारे च बुधे सौभाग्यमेव च ॥
बृहस्पतौ पतिः श्रीमान् शुक्रे चापत्यमेव च ।शनौ बन्ध्यां विजानीयात् प्रथमे स्त्री रजस्वला ॥
”इति ज्योतिस्तत्त्वम् ॥
अथ नवानां ग्रहाणां दानानि ।“सूर्य्ये धेनुञ्च ताम्रञ्च गोधूमं रक्तचन्दनम् ।चन्द्रे चन्दनशङ्खौ च वस्त्रञ्च तिलतण्डुलान् ॥
कुजे वृषः प्रदातव्यो रक्तवस्त्रं गुडौदनम् ।बुधे कर्पूरमुद्गञ्च हरिद्वस्त्रं हिरण्यकम् ॥
पीतवस्त्रद्वयं जीवे हरिद्राकनकानि च ।अश्वः शुक्रे सितो देयः शुक्लधान्यानि यानि च ॥
शनौ च सतिला देया कृष्णा गौर्लौहमुत्तमम् ।राहौ च महिषीच्छागौ माषाश्च तिलसर्षपाः ॥
अजामेषौ च दातव्यौ केतौ चान्नञ्च मिंश्रितम् ।स्वर्णगोविप्रपूजाभिः सर्व्वेषां शान्तिरुत्तमा ॥
”इति ज्योतिस्तत्त्वम् ॥
ग्रहाणां वलयो यथा, --“गुडौदनं पायसञ्च हविष्यं क्षीरषष्टिकम् ।दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ॥
दद्यात् ग्रहक्रमाच्चेदं द्बिजेभ्यो भोजनं बुधः ।शक्तितो वा यथालाभं सत्कृत्य विधिपूर्व्वकम् ॥
”ग्रहाणां दक्षिणा यथा, --“धेनुः शङ्खस्तथानड्वान् हेम वासो हयस्तथा ।कृष्णा गौरायसं छागएता वै दक्षिणाः क्रमात् ॥
”इति संस्कारतत्त्वम् ॥
वाचस्पत्यम्
Sanskritशनि शा--अनि किच्च । १ सूर्य्यपुत्रे छायागर्भजाते ग्रह-भेदे “शनिर्विहङ्गोऽनिलवन्यवन्ध्या शूद्राङ्गना धातुःसमो-स्थिरश्च । क्रुरः प्रतीचीतुवरोऽतिवृद्धोऽकरः क्षितीट्दीर्घसुनीललौहम्” । नील० ताज० । “मन्दोऽलसःकपिलकुन्तलदीर्घगात्रः स्थूलद्विजः परुषरोमक-चोनिलात्मा” वृहज्जा० । २ तत्स्वामिकदिने च “शनौबन्ध्यां विजानीयात्” ज्यो० त० ।
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
