| YouTube Channel

शदॢ (zadlR)

 
धातुप्रदीपः
Sanskrit
शदॢँ शदॢँ शातने
- शीयते शशाद शेदतुः शत्स्यति अशद्रत् शत्ता शत्रुः शादः शदः शाद्वलः शद्लृ शातन इति विशीर्णतायां वर्त्तते शातनं विषयभावेन निर्द्दिश्यते प्रसिद्धिवशात् ।। 858 ।।
शदॢँ शदॢँ शातने
- शीयते शशाद शत्ता शत्स्यति शिशत्सति भ्वादिष्वयं पठितः, स्वरार्थं पुनरत्र पठ्यते (27) 154
क्षीरतरङ्गिणी
Sanskrit
शदॢँ शदॢँ शातने
-(अर्थविवरणम्) शातनं तनूकरणम्
पाघ्राध्मा (7378) इति शदेः शीयः शदेः शित (1360) इति तङानौ शीयते शत्स्यति अशदत् शदेरगतौ तः (6342) शातयति, शातनः, शातनी गौरादिः (गण0 4141) शादस्तृणपङ्कौ शदः, क्षत्रियापशदः, विशदः अदिशदि [ भूशुभि ] भ्यः (उ0 465) क्रिन् शद्रिः रुशातिभ्यां क्रुन् (उ0 4103) शत्रुः शदेर्युच्च इति रक्-शूद्रः दाधेट्सिशदसदो रुः (32159) शद्रुः 826
शदॢँ शदॢ शातने
- पाघ्राध्मा (7378) इति शीयादेशः-शीयते, शदेः शितः (1360) तङ् शत्स्यति शदेरगतौ तः (7342) णिचि-फलानि शातयति अशदत् (द्र0 3155) 146
धातुवृत्तिः
Sanskrit
शदॢँ शदॢ (अर्थः) शातने
अत्र मैत्रेयः शद्लृविशतने विशीर्णतायांवर्त्तते, शातनंविषयभावेन निर्दिश्यते प्रतिसद्धत्वादिति (शीयते ) "पाघ्रा''इत्यादिना शीयादेशः "शदेः शितः'' इति शिद्भाविनोस्मात्तङ् ( शशाद शेदतुः शशतृथ शेदिथ शेदिव ) क्रादिनियमादिट् थलि भारद्वाजनियमादिड्विकल्पः ( शत्ता, शत्स्यति शीयताम् अशीयतशीयेत) आशिषि ( शद्याद् अशदत् ) लृदित्त्वादङ् ( शिशत्सति ) शिद्भावे शादिरात्मनेपदनिमित्तं केवल इति प्रकृतेरङनिमित्तत्वात् "पूर्ववत्सनः'' इति भवति ( शाशद्यते शशात्ति शतयति ) "शदूरगतौ तः'' इति णौ तत्त्वम्, गतौ तु (शादयते गोपालक) इति तत्वं नभवति अयमेव गतौ तत्त्वप्रतषेधो गत्यर्थत्वे प्रमाणम् ( शादः शदः ) शाहलम् ) "नडशादाड्ड्वलच्''इति वलच् चातुरर्थिकः, डित्तृवाट्विलोपः (शद्रुः) "दाधेद्सिशदसदो रुः'' शातयतीति (शुत्रः, ) तृशदिभ्यो "त्रुन्'' इति त्रुन् बाहुलकात् णेर्लोपो वृद्व्दभावश्चेति प्रत्ययलक्षणेन णिज्नमित्तं तत्त्वम् 840
शदॢँ शदॢ (अर्थः) शातने
"पाघ्रा'' इत्यादिना शिति शीयादेशः ( शीयते ) इत्यादि अन्यत्र ( शशाद शत्ता ) इत्यादि सर्वं भौवादिकवत् "शदेः शितः'' इति शिद्विषये तङ्विधानान्नास्य शताऽस्तीति नुम्विकल्पस्य प्रयोजनस्याभावात्पुनः पाठे प्रयोजनं पूर्ववत्स्वरभेदः पृच्छत्यादयोऽनुदात्ता उदात्तेतः विच्छिरेकः सेट् 144
कृदन्तरूपमाला
Sanskrit
1 {@“शदॢ शातने”@} 2 ज्वलादिः।
‘-- अवशातने’ इति जैनः।
शातनम्-तनूकरणमिति क्षीरस्वामी।
‘-- शातनम्-तीक्ष्णीभावः।
विशीर्णतायामित्येके।
3 गतावप्यस्ति’ इति धा।
का।
व्याख्यायाम् 4।
“‘-- विशातने’ विशीर्णतायां वर्तते, शातनं-विषयभावेन निर्दिश्यते प्रसिद्धत्वात्” इति मैत्रेयः-इति मा।
धा।
वृत्तिः।
शादकः-दिका, शादकः-दिका, पुष्पाणां 5 शातकः-तिका, शिशत्सकः-त्सिका, शाशदकः-दिका
शत्ता-शत्री, शादयिता-शातयिता-त्री, शिशत्सिता-त्री, शाशदिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकगत्यर्थकपतॢ 6 धातुवत् ऊह्यानि।
7 शादः, शदः, शाद्वलम्, 8 शद्रुः, 9 शत्रुः।
10 शीयमानः।
प्रासङ्गिक्यः
01
=>
(१६८१)
02
=>
(१-भ्वादिः-८५५। सक। अनि। पर।)
03
=>
[[२। ‘शदेरगतौ तः’ (७-३-४२) इति गतिभिन्नार्थे तकारविधानाज्ज्ञाप्यते, धातोरस्य गतिरप्यर्थ इति।]]
04
=>
(२-२४)
05
=>
[[३। णिजन्ते सर्वत्र ‘शदेरगतौ तः’ (७-३-४२) इति दकारस्य तकारः। गत्यर्थकत्वे तु ‘गाः शादयन् गोपालकः’ इत्यादिप्रयोगे तकारः। ‘पुष्पाणि शातयन्’ इत्यादिषु तु भवत्येव। एवं सर्वत्र ज्ञेयम्।]]
06
=>
(९६८)
07
=>
[[४। संज्ञायां घञ्। शादः = तृणविशेषः। शद इति तु आयुधविशेषः। संज्ञायामत्र घः। शाद्वलम् इति तु शादाः सन्त्यस्मिन् देशे इत्यर्थे ‘नडशादाद् ड्वलच्’ (४-२-८८) इति मत्वर्थीयो ड्वलच्प्रत्ययः। प्रत्ययस्य डित्त्वात् टिलोपः।]]
08
=>
[पृष्ठम्१२८५+ २८]
09
=>
[[२। शातयतीति शत्रुः = अरिः। णिजन्तात् गतिभिन्नार्थे तकारान्तात् धातोः ‘रुशदिभ्यां त्रुन्’ (द। उ। १-१५९) इति त्रुन्प्रत्ययः
\n\n बाहुलकात् णेर्लोपः, वृद्ध्य- भावश्च। प्रत्ययलक्षणेन णिजाश्रिता वृद्धिः
\n\n इत्यादिकमूह्यम्।]]
10
=>
[[३। ‘शदेः शितः’ (१-३-६०) इति आत्मनेपदम्। शिद्भावी यः शदिधातुः तङं लभते इति निष्कृष्टोऽर्थः। विस्तरस्तु न्यासपदमञ्जर्योर्द्रष्टव्यः। ‘पाघ्राघ्मास्था- म्नादाण्दृश्यर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः’ (७-३-७८) इति शिति प्रत्यये परे प्रकृतेः ‘शीय’ इति सर्वादेशः। एवञ्चास्य धातोः शता नेति अवधेयम्।]]
1 {@“शदॢ शातने”@} 2 शादकः-दिका, शादकः-दिका-शातकः-तिका, शिशत्सकः-त्सिका, शाशदकः- दिका
शीयमानः, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकशीयतिवत् 3 ज्ञेयानि।
भौवादिकधात्वपेक्षया नास्य धातो रूपेषु भेदः।
‘शदेः शितः’ 4 इति तङ्विधानात् नापि शताऽस्तीति प्रयोजनं कल्पयितुं शक्यते, येन ‘आच्छीनद्योर्नुम्’ 5 इति नुम्विकल्पः प्रयोजयितुं शक्येत।
ततश्च विफलत्वे सति यथाकथञ्चित् स्वरभेदः प्रयोजनत्वेन कल्प्यः इति प्राञ्चः।
वस्तुतस्तु शपः-शप्रत्ययस्य प्रसक्त्यभावात्--शब्निमित्तकः पित्स्वरोऽनुदात्तः, शनिमित्तकः प्रत्ययस्वरोऽपि लक्ष्याभावादेव दुर्लभ इति नैतदपि प्रयोजनं वक्तुं शक्यमित्यास्तां तावत्।
प्रासङ्गिक्यः
01
=>
(१६८२)
02
=>
(६-तुदादिः-१४२८। सक। अनि। पर।)
03
=>
(१६८१)
04
=>
(१-३-६०)
05
=>
(७-१-८०)