शदॢ (zadlR)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुप्रदीपः
Sanskritशदॢँ शदॢँ शातने
- शीयते । शशाद । शेदतुः । शत्स्यति । अशद्रत् । शत्ता । शत्रुः । शादः शदः । शाद्वलः । शद्लृ शातन इति विशीर्णतायां वर्त्तते । शातनं विषयभावेन निर्द्दिश्यते । प्रसिद्धिवशात् ।। 858 ।।
शदॢँ शदॢँ शातने
- शीयते शशाद शत्ता शत्स्यति शिशत्सति भ्वादिष्वयं पठितः, स्वरार्थं पुनरत्र पठ्यते (27) 154
क्षीरतरङ्गिणी
Sanskritशदॢँ शदॢँ शातने
-(अर्थविवरणम्) शातनं तनूकरणम्
पाघ्राध्मा (7378) इति शदेः शीयः शदेः शित (1360) इति तङानौ शीयते शत्स्यति अशदत् शदेरगतौ तः (6342) शातयति, शातनः, शातनी गौरादिः (गण0 4141) शादस्तृणपङ्कौ शदः, क्षत्रियापशदः, विशदः अदिशदि [ भूशुभि ] भ्यः (उ0 465) क्रिन् शद्रिः रुशातिभ्यां क्रुन् (उ0 4103) शत्रुः शदेर्युच्च इति रक्-शूद्रः दाधेट्सिशदसदो रुः (32159) शद्रुः 826
शदॢँ शदॢ शातने
- पाघ्राध्मा (7378) इति शीयादेशः-शीयते, शदेः शितः (1360) तङ् शत्स्यति शदेरगतौ तः (7342) णिचि-फलानि शातयति अशदत् (द्र0 3155) 146
धातुवृत्तिः
Sanskritशदॢँ शदॢ (अर्थः) शातने
अत्र मैत्रेयः शद्लृविशतने विशीर्णतायांवर्त्तते, शातनंविषयभावेन निर्दिश्यते प्रतिसद्धत्वादिति (शीयते ) "पाघ्रा''इत्यादिना शीयादेशः "शदेः शितः'' इति शिद्भाविनोस्मात्तङ् ( शशाद शेदतुः शशतृथ शेदिथ शेदिव ) क्रादिनियमादिट् थलि भारद्वाजनियमादिड्विकल्पः ( शत्ता, शत्स्यति शीयताम् अशीयतशीयेत) आशिषि ( शद्याद् अशदत् ) लृदित्त्वादङ् ( शिशत्सति ) शिद्भावे च शादिरात्मनेपदनिमित्तं केवल इति प्रकृतेरङनिमित्तत्वात् "पूर्ववत्सनः'' इति न भवति ( शाशद्यते शशात्ति शतयति ) "शदूरगतौ तः'' इति णौ तत्त्वम्, गतौ तु (शादयते गोपालक) इति तत्वं नभवति अयमेव गतौ तत्त्वप्रतषेधो गत्यर्थत्वे प्रमाणम् ( शादः शदः ) शाहलम् ) "नडशादाड्ड्वलच्''इति वलच् चातुरर्थिकः, डित्तृवाट्विलोपः (शद्रुः) "दाधेद्सिशदसदो रुः'' शातयतीति (शुत्रः, ) तृशदिभ्यो "त्रुन्'' इति त्रुन् बाहुलकात् णेर्लोपो वृद्व्दभावश्चेति प्रत्ययलक्षणेन णिज्नमित्तं तत्त्वम् 840
शदॢँ शदॢ (अर्थः) शातने
"पाघ्रा'' इत्यादिना शिति शीयादेशः ( शीयते ) इत्यादि अन्यत्र ( शशाद शत्ता ) इत्यादि सर्वं भौवादिकवत् "शदेः शितः'' इति शिद्विषये तङ्विधानान्नास्य शताऽस्तीति नुम्विकल्पस्य प्रयोजनस्याभावात्पुनः पाठे प्रयोजनं पूर्ववत्स्वरभेदः पृच्छत्यादयोऽनुदात्ता उदात्तेतः विच्छिरेकः सेट् 144
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
कृदन्तरूपमाला
Sanskrit1 {@“शदॢ शातने”@} 2 ज्वलादिः।
‘-- अवशातने’ इति जैनः।
शातनम्-तनूकरणमिति क्षीरस्वामी।
‘-- शातनम्-तीक्ष्णीभावः।
विशीर्णतायामित्येके।
3 गतावप्यस्ति’ इति धा।
का।
व्याख्यायाम् 4।
“‘-- विशातने’ विशीर्णतायां वर्तते, शातनं-विषयभावेन निर्दिश्यते प्रसिद्धत्वात्” इति मैत्रेयः-इति मा।
धा।
वृत्तिः।
शादकः-दिका, शादकः-दिका, पुष्पाणां 5 शातकः-तिका, शिशत्सकः-त्सिका, शाशदकः-दिका
शत्ता-शत्री, शादयिता-शातयिता-त्री, शिशत्सिता-त्री, शाशदिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकगत्यर्थकपतॢ 6 धातुवत् ऊह्यानि।
7 शादः, शदः, शाद्वलम्, 8 शद्रुः, 9 शत्रुः।
10 शीयमानः।
01 (१६८१)
02 (१-भ्वादिः-८५५। सक। अनि। पर।)
03 [[२। ‘शदेरगतौ तः’ (७-३-४२) इति गतिभिन्नार्थे तकारविधानाज्ज्ञाप्यते, धातोरस्य गतिरप्यर्थ इति।]]
04 (२-२४)
05 [[३। णिजन्ते सर्वत्र ‘शदेरगतौ तः’ (७-३-४२) इति दकारस्य तकारः। गत्यर्थकत्वे तु ‘गाः शादयन् गोपालकः’ इत्यादिप्रयोगे न तकारः। ‘पुष्पाणि शातयन्’ इत्यादिषु तु भवत्येव। एवं सर्वत्र ज्ञेयम्।]]
06 (९६८)
07 [[४। संज्ञायां घञ्। शादः = तृणविशेषः। शद इति तु आयुधविशेषः। संज्ञायामत्र घः। शाद्वलम् इति तु शादाः सन्त्यस्मिन् देशे इत्यर्थे ‘नडशादाद् ड्वलच्’ (४-२-८८) इति मत्वर्थीयो ड्वलच्प्रत्ययः। प्रत्ययस्य डित्त्वात् टिलोपः।]]
08 [पृष्ठम्१२८५+ २८]
09 [[२। शातयतीति शत्रुः = अरिः। णिजन्तात् गतिभिन्नार्थे तकारान्तात् धातोः ‘रुशदिभ्यां त्रुन्’ (द। उ। १-१५९) इति त्रुन्प्रत्ययः
\n\n बाहुलकात् णेर्लोपः, वृद्ध्य- भावश्च। प्रत्ययलक्षणेन णिजाश्रिता वृद्धिः
\n\n इत्यादिकमूह्यम्।]]
10 [[३। ‘शदेः शितः’ (१-३-६०) इति आत्मनेपदम्। शिद्भावी यः शदिधातुः स तङं लभते इति निष्कृष्टोऽर्थः। विस्तरस्तु न्यासपदमञ्जर्योर्द्रष्टव्यः। ‘पाघ्राघ्मास्था- म्नादाण्दृश्यर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः’ (७-३-७८) इति शिति प्रत्यये परे प्रकृतेः ‘शीय’ इति सर्वादेशः। एवञ्चास्य धातोः शता नेति अवधेयम्।]]
1 {@“शदॢ शातने”@} 2 शादकः-दिका, शादकः-दिका-शातकः-तिका, शिशत्सकः-त्सिका, शाशदकः- दिका
शीयमानः, इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकशीयतिवत् 3 ज्ञेयानि।
भौवादिकधात्वपेक्षया नास्य धातो रूपेषु भेदः।
‘शदेः शितः’ 4 इति तङ्विधानात् नापि शताऽस्तीति प्रयोजनं कल्पयितुं शक्यते, येन ‘आच्छीनद्योर्नुम्’ 5 इति नुम्विकल्पः प्रयोजयितुं शक्येत।
ततश्च विफलत्वे सति यथाकथञ्चित् स्वरभेदः प्रयोजनत्वेन कल्प्यः इति प्राञ्चः।
वस्तुतस्तु शपः-शप्रत्ययस्य च प्रसक्त्यभावात्--शब्निमित्तकः पित्स्वरोऽनुदात्तः, शनिमित्तकः प्रत्ययस्वरोऽपि लक्ष्याभावादेव दुर्लभ इति नैतदपि प्रयोजनं वक्तुं शक्यमित्यास्तां तावत्।
01 (१६८२)
02 (६-तुदादिः-१४२८। सक। अनि। पर।)
03 (१६८१)
04 (१-३-६०)
05 (७-१-८०)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
