| YouTube Channel

शत्रुन्तपः (zatruntapaH)

 
शब्दकल्पद्रुमः
Sanskrit
शत्रुन्तपः, त्रि, (शत्रुं तपति तापयति वा तप +“संज्ञायां भृतॄवृजीति ।” ४६ इतिखच् ततो मुम् ।) वैरितापकृत् इतिमुग्धबोधव्याकरणम्
(यथा, महाभारते ।५२ ११ ।“शत्रुन्तपः कोपममृष्यमाणःसमर्द्दयत् कूर्म्मनखेन पार्थम्
”)