| YouTube Channel

शत्रुघ्नः (zatrughnaH)

 
Wordnet
Sanskrit
Synonyms:
शत्रुघ्नः, शत्रुमर्दनः
noun
राज्ञः दशरथस्य कनिष्ठः पुत्रः।
"शत्रुघ्नः सुमित्रायाः गर्भात् जातः।"
शब्दकल्पद्रुमः
Sanskrit
शत्रुघ्नः,
पुं,
(शत्रून् हन्तीति हन् + मूलविभु-जादित्वात् कः यद्वा, अमनुष्यकर्त्तृकेऽपि चेत्यपिशब्दात् कृतघ्न शत्रुघ्नादयः सिद्धा इति दुर्ग-सिंहः ।) श्रीरामस्य भ्राता तत्पर्य्यायः ।शत्रुमर्द्दनः इति शब्दरत्नावली
तुसुमित्रया हुतोच्छिष्टभोजनादसावि यथा, --“निष्ठां गते दत्त्रिमसभ्यतोषेविहित्रिमे कर्म्मणि राजपत्न्यः ।प्राशुर्हु तोच्छिष्टमुदारवंश्या-स्तिस्रः प्रसोतुं चतुरः सुपुत्त्रान्
कौशल्ययासावि सुखेन रामःप्राक् केकयीतो भरतस्ततोऽभूत् ।प्रासोष्ट शत्रुघ्नमुदारचेष्ट-मेका सुमित्रा सह लक्ष्मणेन
”इति भट्टिकाव्ये सर्गः
(अयं हि मधुपुरनिवासिनो लवणाख्यराक्ष-सस्य निहन्ता एतद्विवरणं रामायणे उत्तर-काण्डे ७३ अध्यायमारभ्य द्रष्टव्यम्
*
शत्रु-हन्तरि, त्रि यथा, रामायणे ।“गच्छता मातुलकुलं भरतेन तदानघः ।शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः
”)