| YouTube Channel

शतानीकः (zatAnIkaH)

 
Wordnet
Sanskrit
Synonyms:
शतानीकः
noun
जनमेजयस्य पुत्रविशेषः।
"शतानीकस्य वर्णनं पुराणेषु अस्ति।"
Synonyms:
शतानीकः
noun
पुराणेषु वर्णितः एकः ऋषिः।
"शतानीकः व्यासस्य शिष्यः आसीत्।"
Synonyms:
शतानीकः
noun
द्रौपद्याः पञ्चसु पुत्रेषु एकः।
"शतानीकस्य पिता नकुलः आसीत्।"
Synonyms:
शतानीकः
noun
एकः असुरः।
"शतानीकस्य वर्णनं पुराणेषु वर्तते।"
शब्दकल्पद्रुमः
Sanskrit
शतानीकः,
पुं,
(शतं अनीकानि यस्य ।) वृद्धः ।मुनिभेदः तु व्यासशिष्यः राजभेदः सच चतुर्थयुगे चन्द्रवंशीयद्वितीयराजः तस्यपिता जनमेजयः पुत्त्रः सहस्रानीकः इतिमेदिनी
सुदासराजपुत्त्रः इति श्रीभागवते९ स्कन्धे २२ अध्यायः
(नकुलपुत्त्रः यथा, महाभारते २३४ १० ।“पुत्त्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथा विभुः ।श्रुतकर्म्मार्ज्जुनिश्चैव शतानीकश्च नाकुलिः
सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः ।सर्व्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव
”)