| YouTube Channel

शताङ्गः (zatAGgaH)

 
Wordnet
Sanskrit
Synonyms:
तिनिशः, स्यन्दनः, नेमी, रथद्रुः, अतिमुक्तकः, वञ्चुलः, चित्रकृत्, चक्री, शताङ्गः, शकटः, रथः, रथिकः, भस्मगर्भः, मेषी, जलधरः
noun
शिंशपाजातीयः वृक्षः यस्य पत्राणि खदिरवत् भवन्ति।
"तिनिशस्य काष्ठम् अतीव दृढं भवति।"
Synonyms:
अश्वरथः, वाहनम्, यानम्, गन्त्री, वाहः, शताङ्गः, स्यन्दनः
noun
प्राचीनकालीयं तद् वाहनं यद् अश्वेन अश्वैः वा उह्यते।
"महाभारते भगवान् श्रीकृष्णः अर्जुनस्य रथस्य सारथिः आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
शताङ्गः,
पुं,
(शतं अङ्गानि अवयवा यस्य ।)रथः इत्यमरः
तिनिसवृक्षः इति राज-निर्घण्टः
(दानवविशेषः यथा, हरिवंशे ।२३२ ।“करालो ज्वालजिह्वश्च शताङ्गः शतलोचनः
”शतावयवविशिष्टे, त्रि यथा, महाभारते ।१ १८९ २२ ।“शताङ्गानि तुर्य्याणि वादकाः समवाद-यन्
”)