| YouTube Channel

शतमानः (zatamAnaH)

 
शब्दकल्पद्रुमः
Sanskrit
शतमानः,
पुं,
क्ली,
रूप्यपलम् आढकः इत्य-मरभरतौ
(यथा, मनुः १३७ ।“धरणानि दश ज्ञेयाः शतमानस्तु राजतः ।चतुः सौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः
”शतलोकपूज्ये, त्रि यथा, वाजसनेयसंहिता-याम् १९ ९३ ।“इन्द्रस्य रूपं शतमानमायु-श्चन्द्रेण ज्योतिरमृतं दधाशः
”“शतानामनेकेषां प्राणिनां मानं पूजा यस्मिन्तत् जगत्पूज्यमित्यर्थः ।” इति तद्भाष्ये मही-धरः
)