| YouTube Channel

शतमन्युः (zatamanyuH)

 
Wordnet
Sanskrit
Synonyms:
इन्द्रः, देवराजः, जयन्तः, ऋषभः, मीढ्वान्, मरुत्वान्, मघवा, विडोजा, पाकशासनः, वृद्धश्रवाः, सुनासीरः, पुरुहूतः, पुरन्दरः, जिष्णुः, लेखर्षभः, शक्रः, शतमन्युः, दिवस्पतिः, सुत्रामा, गोत्रभित्, वज्री, वासवः, वृत्रहा, वृषा, वास्तोस्पतिः, सुरपतिः, बलारातिः, शचीपतिः, जम्भभेदी, हरिहयः, स्वाराट्, नमुचिसूदनः, संक्रन्दनः, दुश्च्यवनः, तुराषाट्, मेघवाहनः, आखण्डलः, सहस्त्राक्षः, ऋभुक्षा, महेन्द्रः, कोशिकः, पूतक्रतुः, विश्वम्भरः, हरिः, पुरुदंशा, शतधृतिः, पृतनाषाड्, अहिद्विषः, वज्रपाणिः, देवराजः, पर्वतारिः, पर्यण्यः, देवताधिपः, नाकनाथः, पूर्वदिक्कपतिः, पुलोमारिः, अर्हः, प्रचीनवर्हिः, तपस्तक्षः, बिडौजाः, अर्कः, उलूकः, कविः, कौशिकः, जिष्णुः
noun
सा देवता या स्वर्गस्य अधिपतिः इति मन्यते।
"वेदेषु इन्द्रस्य सूक्तानि सन्ति।"
शब्दकल्पद्रुमः
Sanskrit
शतमन्युः,
पुं,
(शतं मन्यवः क्रतवो यस्य ।) इन्द्रः ।इत्यमरः
(यथा, भागवते ।“याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः ।तद्यशः पावनं दिक्षु शतमन्योरिवातनोत्
”शतयज्ञकारिणि, त्रि यथा, बृहत्संहि-तायाम् ४३ ५४ ।“त्वमन्तकः सर्व्वहरः कृशानुःसहस्रशीर्षा शतमन्युरीड्यः
”बहुक्रोधे त्रि यथा, ऋग्वेदे १० १०३ ।“वीरः शतमन्युरिन्द्रः ।”“शतमन्युः बहुयज्ञः बहुक्रोधो वा ।” इतितद्भाष्ये सायणः
)