| YouTube Channel

शतपदचक्रं (zatapadacakraM)

 
शब्दकल्पद्रुमः
Sanskrit
शतपदचक्रं,
क्ली,
(शतं पदानि कोष्ठा यस्य तच्चतच्चक्रञ्चेति ।) नाम्ना नक्षत्रज्ञानार्थं चक्रम् ।यथा, --“चक्रं शतपदं वक्ष्ये ऋक्षांशाक्षरसम्भवम् ।नामादिवर्णतो ज्ञेया ऋक्षराश्यंशकास्तथा
तिर्य्यगूर्द्ध्वगता रेखा रुद्रसंख्या लिखेद्बुधः ।जायते कोष्ठकानाञ्च शतैकं १०० नात्र संशयः
अ-व-क-ह-डा ऐशान्यां म-ट प-र-ता हरितिचाग्नेय्याम् ।न-य-भ-ज-खा नैरृत्यां ग-स-द-च-ला व्याय-व्याम्
पञ्च पञ्च क्रमेणैव विंशवर्णान् प्रयोजयेत् ।पञ्चस्वरसमायोगे एकैकं पञ्चधा कुरु
अवर्णाद्यास्त्रयो ज्ञेयाः सन्ध्यक्षरयुतास्तथा ।सजातीयैक्यमास्थाय पञ्चस्वरविनिर्णयः
ऋदॢतोरप्यकारेण शेन सस्य परिग्रहः ।कुर्य्यात् कु-पु-भु-दुस्थाने त्रीणि त्रीण्यक्षराणिच
कु-घ-ङ-छा भवेत् स्तम्भे रौरे त्वीशानगोचरे ।पु-ष-ण-ठा भवेत् स्तम्भे हस्ते चाग्नेयसंज्ञके
भु-ध-फ-ढा भवेत् स्तम्भे पूर्व्वाषाढे नैरृते ।दु-थ-झ-ङा भवेत् स्तम्भे वायव्ये भाद्र उत्तरे
एवं स्तम्भचतुष्कञ्च ज्ञातव्यं स्वरवेदिभिः
धिष्ट्यानि कृत्तिकादीनि प्रत्येकं चतुरक्षरैः ।साभिजिन्त्यंशकास्तत्र शतैकं द्बादशाधिकम्
यदृक्षांशककोष्ठस्थः क्रूरः सौम्योऽपि वा ग्रहः ।तत्रस्थो वेधयेत् सम्यक् पुंसो नामादिमाक्षरम्
सौम्यैर्विद्धं शुभं ज्ञेयमशुभं पापखेचरैः ।मिश्रैर्मिश्रफलं तत्र निर्व्वेधेन शुभाशुभम्
यद्बाच्यं सर्व्वतोभद्रे ग्रहोपग्रहवेधतः ।शुमाशुभफलं सर्व्वं तदिहापि विचिन्तयेत्
”पञ्चस्वरा अ-इ-उ-ए-ओकारास्तैर्योगे धिष्ट्यानिनक्षत्राणि अत्र चतुर्भिर्व्वर्णैरेकनक्षत्रं यथा, --अ वि वु वे वो कि५ कु के को हि हु हेहो डि डु डे डो मि मु मे १० ।मो टि टु ११ टे टो पि १२ पु णठ १३ पे पो रि १४ रु रे रो १५ ।ति तु ते तो १६ नि नु ने १७ नो यियु १८ ये यो भि १९ भु २० ।भे भो जि २१ जु जे जो खि खखे खो २२ गि गु गे २३ गो शि शु२४ शे षो दि २५ दु २६ ।दे दो चि २७ चु चे चो लि लु लेलो ऋऌयुक्तः अकारयुक्तेन ज्ञेयः ह्रस्वेनदीर्घो ज्ञेयः तालव्यशकारेण दन्त्यसकारोज्ञेयः इति शतपदचक्रम् इति ज्योतिस्तत्त्वम्