| YouTube Channel

शणसूत्रं (zaNasUtraM)

 
शब्दकल्पद्रुमः
Sanskrit
शणसूत्रं,
क्ली,
(शणस्य सूत्रम् ।) पवित्रकम् ।इत्यमरः
“द्वे शणसूत्रजाले शणस्य सूत्रंशणसूत्रम् शणति ददाति सूत्रं शणः शणश्रन्म दाने अन् शणः तालव्यशादिर्मूर्द्धन्य-णान्तः इति बहवः सनो दन्त्यसादिर्दन्त्यनान्तइति केचित् तन्मते षन ञु दाने इत्यस्यरूपम् सणो दन्त्यसादिर्मूर्द्धन्यणान्त इत्यपरे ।सणकिणमणिकाकणकोणकाणा इति मूर्द्धन्य-णान्ते विद्याभरणम्
‘कार्पासमुपवीतं स्याद्विप्रस्योर्द्ध्ववृतं त्रिवृत् ।सनसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्
इतिमनुवचनात् पवित्रकमपि तदुच्यते आनायइत्यादि चतुष्कं जाले इत्येके आनाय इद्यादिश्लोकार्द्धं क्वचिद्दृश्यते तत् स्वाम्याद्युपेक्षितमपिअन्यैरादृतमिति विवृतम् ।” इति तट्टीकायांभरतः