| YouTube Channel

शडि (zaDi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
शण्ड्
मूलधातुः:
शडि
धात्वर्थः:
रुजायाम्, सङ्घाते
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
शण्डते
धातुप्रदीपः
Sanskrit
शडिँ शडि रुजायां, संघाते
- शण्डेत शशण्डे शण्डः परमशण्डः कुशण्डिका ।। 278 ।।
क्षीरतरङ्गिणी
Sanskrit
शडिँ शडि रुजायां, संघाते
- तालव्यादिः शण्डते शण्डोऽब्जादिमूलाभोगः सनोतेर् (धा0 सू0 82) बाहुलकात् षत्वे डः (द्र0 उ0 1113) षण्ड उत्सृष्टो गौः 273
धातुवृत्तिः
Sanskrit
शडिँ शडि (अर्थः) रुजायां, संघाते
तालव्योष्मादिः ( शण्डते ) इत्यादि शण्डः, असुरपुरोहितः शण्डिलःतीर्थमृषिश्च"सलिकल्पनी" इत्यादिनेलच् 276
कृदन्तरूपमाला
Sanskrit
1 {@“शडि रुजायां संघाते च”@} 2 ‘-- हिंसागत्योः’ इति काशकृत्स्नः।
किंच भ्वादौ इत उत्तरत्र ‘-- रुजायाम्’ इति पृथक् धातुत्वेन पठितः।
शण्डकः-ण्डिका, शण्डकः-ण्डिका, शिशण्डिषकः-षिका, शाशण्डकः-ण्डिका
शण्डिता-त्री, शण्डयिता-त्री, शिशण्डिषिता-त्री, शाशण्डिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककण्ठतिवत् 3 ऊह्यानि।
शण्डः- असुरपुरोहितः, शण्डिलः, ल्युटि 4 शण्डनम्।
इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१६७९)
02
=>
(१-भ्वादिः-२७९। सक। सेट्। आत्म।)
03
=>
(१४९)
04
=>
[[B। ‘अभुण्डितोच्चण्डगतीनशण्डनान्…।’ धा। का। १-३७]]