| YouTube Channel

शठिता-त्री (zaThitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शठ शाठ्ये कैतवे च”@} 2 ‘कैतवे शठतीति स्यात् श्लाघायां शाठयेत णौ।’ 3 इति देवः।
‘शठ कैतवे च’ चकारात्--4 ‘हिंसासंक्लेशनयोः’ इत्युक्तावर्थौ गृह्येते।’ इति पुरुषकारः।
धातुवृत्तावपि एवमेव।
क्षीरस्वामिशाकटा- यनादयः पुनश्चकारं नैव पठन्ति।
काशकृत्स्नधातुपाठे तु ‘-- कैतवे -- द्यूते स्पर्धायां च’ इति दृश्यते।
‘-- हिंसायां कैतवे च’ इति चन्द्रः।
‘-- वधक्लेशकैतवे’ इति वोपदेवः।
शाठकः-ठिका, शाठकः-ठिका, शिशठिषकः-षिका, शाशठकः-ठिका
शठिता-त्री, शाठयिता-त्री, शिशठिषिता-त्री, शाशठिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककठतिवत् 5 ऊह्यानि।
शठः = नैकृतिकः।
प्रासङ्गिक्यः
01
=>
(१६७५)
02
=>
(तः१#}-भ्वादिः-३४०। अक। सेट्। पर।)
03
=>
(श्लो। ८२)
04
=>
(पूर्वधात्वर्थभूतौ)
05
=>
(१४८)