| YouTube Channel

शठकः-ठिका (zaThakaH-ThikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शठ सम्यगवभाषणे”@} 2 कथादिः, अदन्तश्च।
‘शठयेत् श्वठयेदेते द्वे सम्यगवभाषणे।’ 3 इति देवः।
‘-- सम्यगाभाषणे सम्यग्वचनक्रियायामिति क्षीरस्वामी’ इति पुरुषकारः।
क्षीरतराङ्गण्यां तु ‘-- प्रसम्यगाभाषणे’ इत्येव दृश्यते।
शठकः-ठिका, शिशठयिषकः-षिका
शठयिता-त्री, शिशठयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिककलयतिवत् 4 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१६७८)
02
=>
(१०-चुरादिः-१८५५। सक। सेट्। उभ।)
03
=>
(श्लो ८१)
04
=>
(१७६)