| YouTube Channel

शङ्खद्रावक: (zaGkhadrAvaka:)

 
Spoken Sanskrit
English
शङ्खद्रावक zaGkhadrAvaka
m.
solvent for dissolving the conch or other shells
Monier Williams Cologne
English
शङ्ख—द्राव or शङ्ख—द्रावक,
m.
a solvent for dissolving the conch or other shells (used in medicine),
L.
Apte Hindi
Hindi
शङ्खद्रावक:
पुं*
शङ्खः- द्रावक: -
एक प्रकार का घोल जिसमें शंख भी घुल जाता हैं
शब्दकल्पद्रुमः
Sanskrit
शङ्खद्रावकः,
पुं,
(शङ्खं द्रावयतीति द्रु + णिच् +ण्वुल् ।) औषधविशेषः यथा, --“अर्कस्नुही तथा चिञ्चा तिलारग्वधचित्रकम् ।अपामार्गभस्मसमं वस्त्रपूतं जलं हरेत्
मृद्वग्निना पचेत्तत्तु यावल्लवणतां गतम् ।लवणेन समौ ग्राह्यौ द्बौ क्षारौ टङ्गणं तथा
समुद्रफेनगोदन्ताकाशीशं सोरका तथा ।द्बिगुणं पञ्चलवणं मातुलुङ्गरसेन
काचकुप्यान्तु सप्ताहं वासयेदम्लयोगतः ।शङ्खचूर्णपलं दत्त्वा वारुणीयन्त्रमुद्धरेत्
सर्व्वधातून् हरेच्छीघ्रं वराटीशङ्खकादिकान् ।उदरादिसर्व्वरोगाणां सद्यो हि नाशकः परः
”इति शङ्खद्रावकः
*
अपि ।“योगिनीभैरवाभ्याञ्च बलिमादौ प्रदापयेत् ।पश्चाद्यन्त्रञ्च कर्त्तव्यमेवाह परमेश्वरी
रसः शङ्खद्रवो नाम शम्भुदेवेन भाषितः ।गुह्याद्गुह्यतमं गुह्यमिदानीं कथ्यते मया
शङ्खचूर्णं यवक्षारं सर्ज्जिकाक्षारटङ्गणम् ।समञ्च पञ्चलवणं स्फटिकारी नृशादरः
काचकुप्यां ततः क्षिप्त्वा वारुणीयन्त्रमुद्धरेत् ।यामार्द्धं द्रावयत्येष शङ्खशुक्तिवराटकान्
अर्शांसि नाशयेत् षट् मूत्रकृच्छ्राश्मरीं तथा ।उदराष्टविधं हन्ति गुल्मप्लीहोदराणि
अजीर्णं नाशयेच्छीघ्रं ग्रहणीञ्च विसूचिकाम् ।भुक्तशेषे भोक्तव्यो माषमात्रो रसोत्तमः
क्षणमात्राद्भवेद्भस्म पुनर्भोजनमिच्छति ।प्रत्यहं भोजनान्ते संसेव्योऽयं रसोत्तमः
रुजायां भयं क्वापि सत्यं सत्यं वदाम्यहम् ।न देयं यस्य कस्यापि सदा गोप्यञ्च कारयेत् ।रसः शङ्खद्रवो नाम वैद्यानामुपकारकः
”शङ्खद्रावको रसः इति भैषज्यरत्नावली
वाचस्पत्यम्
Sanskrit
शङ्खद्रावक
पु०
आर्षधविशेषे तत्पाकादि यथा “अर्क-स्नुही तथा चिङ्क्षा तिलारग्बधचित्रकम् अपामार्गभस्मसमं वस्त्रपूतं जलं हरेत् मृद्वग्निना पचेद्त्तत्तु याश्च-ल्लवणताङ्गतम् लवणेन समौ ग्राह्यौ द्वौ क्षारौ टङ्गणंतथा समुद्रफेनगोदन्तकाशीशं सोरका तथा ।द्विगुणं पञ्चलवणं मातुलुङ्गरसेन काचकूप्यान्तुसप्ताहं वासयेदम्लयोगतः शङ्खचूर्णपलं दत्त्वा वारुणीयन्त्रमुद्धरेत् सर्वधातून् हरेच्छीध्रं वराटीशङ्खका-दिकान् उदरादिकरोगाणां सद्यो हि नाशकःपरः” भैषज्यर० “योगिनीभैरवाभ्याञ्च बलिमादौप्रदापयेत् पश्चाद् यन्त्रञ्च कर्त्तव्यमेवाह परमेश्वरी ।रसः शङ्खद्रवो नाम शम्भुदेवेन भाषितः गुह्याद्नुह्यतमं गुह्यमिदानीं कथ्यते मया शङ्खचूर्णं यव-क्षारं सर्जिकाक्षारटङ्गणम् समञ्च पञ्चलवणं स्फ-टिकारी नृशादरः काचकूप्यां तत्र क्षिप्वा वारुणीयन्त्रमुद्धरेत् यामार्द्धं द्रावयत्येष शङ्खशुक्तिवरा-टकान् अर्शांसि नाशयेत् षट् मूत्रकृच्छ्राश्मरींतथा उदराष्टविधं हन्ति गुल्मप्लीहोदराणि ।अजीर्णं नाशयेच्छीघ्रं ग्रहणीञ्च विसूचिकाम् भुक्त-शेषे भोक्तव्यो माषमात्रोरसोत्तमः क्षणमात्रा-द्भवेत् भस्म पुनर्भोजनमिच्छति प्रत्यहं भोजनान्ते चसंसेघ्योऽयं रसोत्तमः रुजायां भयं क्वापि सत्यंसत्यं वदाम्यहम् देयं यस्य कस्यापि सदा गोप्यञ्चकारयेत् रसः शङ्खद्रवो बास वैद्यानामुपकारकः”