| YouTube Channel

शङ्कुकर्णः (zaGkukarNaH)

 
शब्दकल्पद्रुमः
Sanskrit
शङ्कुकर्णः
पुं,
(शङ्कू इव कर्णौ यस्य ।) गर्द्दभः ।इति त्रिकाण्डशेषः
(दानवदिशेषः यथा, हरिवंशे ८१ ।“शङ्कुकर्णो विवादश्च गवेष्ठो दुन्दुभिस्तथा
”नागविशेषः यथा, महाभारते ५७ ।१५ ।“शङ्कुकर्णः पिठरकः कुठारसुखसेचकौ
”शङ्कुसदृशकर्णविशिष्टे, त्रि यथा, भागवते ।७ १५ ।“आन्त्रस्रजः क्षतजकेशरशङ्कुकर्णा-न्निह्रादभीतदिगिभादरिभिन्नखाग्रात्
”)