| YouTube Channel

शङ्कयिता-त्री (zaGkayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“शकि शङ्कायाम्”@} 2 ‘-- त्रासशङ्कयोः’ इति वोपदेवः।
‘शङ्कते शकि शङ्कायां शक्तौ शक्नोति मर्षणे’ 3 इति देवः।
शङ्ककः-ङ्किका, शङ्ककः-ङ्किका, शिशङ्किषकः-षिका, शाशङ्ककः-ङ्किका
शङ्किता-ती, शङ्कयिता-त्री, शिशङ्किषिता-त्री, शाशङ्किता-त्री
इत्येवमादीनि रूपाणि सर्वाण्यपि भौवादिककङ्कतिवत् 4 ज्ञेयानि।
शङ्कः, शङ्का-आशङ्का, शानचि 5 आशङ्कमानः, 6 शङ्कुः, 7 शङ्कुला, इत्यादिकानि रूपाण्यस्य धातोः अधिकानीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१६७१)
02
=>
(१-भ्वादिः-८६। अक। सेट्। आत्म।)
03
=>
(श्लो। ४३)
04
=>
(१४०)
05
=>
[[आ। ‘आशङ्कमानो वैदेहीं खादितां निहतां मृताम्।’ भ। का। ६-६]]
06
=>
[[४। औणादिके (द। उ। १-२०) कुप्रत्यये रूपमेवम्। शङ्कुः = जलजन्तुमेदः, स्थाणुः, शल्यं च। ‘… शङ्कवो मकरादयः।’ इत्यमरः (१। १०। २०)।]]
07
=>
[[५। ‘हृषेरुलच्’ (द। उ। ८-१०६) इत्यत्र बाहुलकाद् उलच्प्रत्यये रूपमेवम्। शङ्कुला = आयुधम्, कुमारक्रीडा च।]]