| YouTube Channel

शकॢ (zaklR)

 
धातुप्रदीपः
Sanskrit
शकॢँ शकॢँ शक्तौ
- शक्नोति शशाक, शेकतुः शक्ता अशकत् शक्तः शक्यम् शक्रः 17
क्षीरतरङ्गिणी
Sanskrit
शकॢँ शकॢँ शक्तौ
- शक्नोति, शक्नुवन्ति अन्यद् दिवादौ (478) उक्तम् सनिमीमा (7454) इति शिक्षति पुषादित्वाद् (दिवादौ 73-92) अङि सिद्धे लृदित्त्वम् आत्मनेपदार्थे कर्मव्यतिहारे-व्यत्यशकत शकधृषज्ञा (3465) इति तुमुन्- शक्तो घटं कर्तुम् शकितः 15
धातुवृत्तिः
Sanskrit
शकॢँ शकॢ (अर्थः) शक्तौ
( शक्नोति शक्नुवन्ति शक्नुहि अशक्नोत् शक्नुयात् ) शेषं शक्यतिवत् लुङि लृदित्त्वादङ्, ( अशकत् ) इति विद्यासु शिक्षते "शिक्षेर्जिज्ञासायाम्'' इति तङ्, विद्याविषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः ( शक्तो ) घटः, कर्त्तुं (शकित) इति वा सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेनेतीड्विकल्पः "विभाषाभावादिकर्मणोः'' इत्यत्र हरदत्तः यद्यपि शकिः केवलोऽकर्मकसतथापि तुमुनन्तवाच्यक्रियाविषयत्वे सकर्मको भवति, तथा कर्मणि लादयोऽपि दृश्यन्ते अयं योगः शक्योवक्तुमितीति ( शक्यम् ) "शकिसहोश्च'' इति यत् (शकलम्) "शकिशम्योर्नित्'' इति कलप्रत्ययः ( शकः ) "स्फायितञ्चि'' इति रः ( शक्लः प्रियंवदः ) "शक्यादिभ्यः क्ल'' इत्यूहितः क्लः 15
कृदन्तरूपमाला
Sanskrit
1 {@“शकॢ शक्तौ”@} 2 ‘शङ्कते शकि शङ्कायां शक्तौ शक्नोति मर्षणे।’ 3 इति देवः।
‘शकॢञ्--’ इति काशकृत्स्नः।
‘उभयपदी’ इति कातन्त्रशाकटायन- वोपदेवादयः।
शाककः-किका, शाककः-किका, शिशक्षकः-क्षिका, शाशककः-शिका
शक्ता-त्री, शाकयिता-त्री, शिशक्षिता-त्री, शाशकिता-त्री
शक्नुवन्-ती, शाकयन्-न्ती, शाकयमानः, 4 शिक्षमाणः, शाशक्यमानः
शक्तम्-क्तः, शक्तवान्, शकितः, हरिः द्रष्टुं शकितः, शक्तो वा, शाकितः, शिक्षितः, शाशकितः-तवन्
5 इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकशक्यतिवत् 6 ज्ञेयानि।
शक्यम्, 7 शक्नुवानः, शक्तिः, 8 शका, 9 शेकिवान्, 10 शकः 11, शक्तिः, 12 शाकः, शकटम्, शकृत्, शक्वा-शक्वरी, शक्या, शक्रः, शकलम्, शक्लम्, शकुनः-शकुनिः-शकुन्तः-शकुन्तिः, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
एतेषां रूपाणां निष्पत्तिप्रकारो दैवादिकधातावेव लिखितः।
तत्रैव द्रष्टव्यः।
प्रासङ्गिक्यः
01
=>
(१६७२)
02
=>
(५-स्वादिः-१२६१। अक। अनि। पर।)
03
=>
(श्लो। ४३)
04
=>
[[६। ‘शिक्षेर्जिज्ञासायाम्’ (वा। ३-२-१) इति सन्नन्तात् जिज्ञासार्थे तङेव। ‘पूर्ववत् सनः’ (१-३-६२) इत्यस्यापवादः। अभ्यासलोपादिकं शकधातुवत् बोध्यम्।]]
05
=>
[पृष्ठम्१२८१+ २७]
06
=>
(१६७०)
07
=>
[[१। शतरि स्वादित्वात् श्नुप्रत्ययः। उवङादेशः।]]
08
=>
[[२। स्त्रियां भिदादिपाठात् (३-३-१०४) अङ्।]]
09
=>
[[३। लिटः क्वसुप्रत्यये, ‘अत एकहल्मध्ये--’ (६-४-१२०) इति एत्वाभ्यासलोपयोः, ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीडागमः। छान्दसोऽपि क्वसुः लोके बहुलं प्रयुज्यते इत्यसकृदधस्तात् प्रतिपादितमस्माभिः। काशिकायाम् (७-२-६७) उदाहृतोऽयं शब्दः।]]
10
=>
[[४। पचाद्यचि रूपमेवम्। शकः देशविशेषः। राजविशेषो वा।]]
11
=>
[देशः]
12
=>
[[५। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। शाकः = वार्ताकादिः।]]