| YouTube Channel

शक्रोत्थानं (zakrotthAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
शक्रोत्थानं,
क्ली,
(शक्रस्य शक्रध्वजस्य उत्थानम् ।)शक्रध्वजोत्सवः अस्य विधिर्लिख्यते ।श्रीऔर्व्व उवाच ।“अथातः शृणु राजेन्द्र शक्रोत्थानध्वजोत्सवम् ।यत्कृत्वा नृपतिर्याति नो कदाचित् पराभवम्
रवौ हरिस्थे द्वादश्यां श्रवणे स्रितपक्षके ।आराधयेन्नृपः सम्यक् सर्व्वविघ्नोपशान्तये
राजोपरिचरो नाम वसुनामापरस्तु यः ।नृपस्तेनायमतुलो यज्ञः प्रावर्त्तितः पुरा
प्राविट्काले नभसि द्वादश्यामसितेतरे ।पुरोहितो बहुविधैर्वाद्यैस्तूर्य्यैः समन्वितः
प्रथमं शक्रकेत्वर्थे वृक्षमामन्त्र्य वर्द्धयेत् ।सांवत्सरो वार्द्धकिश्च कृतकौतुकमङ्गलः
उद्याने देवतागारे श्मशाने मार्गमध्यतः ।ये जातास्तरवस्तांस्तु वर्जयेद्वासवध्वजे
बहुवल्लीयुतं शुष्कं बहुकण्टकसंयुतम् ।कुब्जं वृक्षादनीयुक्तं लताच्छन्नं तरुं त्यजेत्
पक्षिवाससमाकीर्णं कोटरैर्ब्बहुभिर्युतम् ।पवनानलविध्वस्तं तरुं यत्नेन वर्जयेत्
नारीसंज्ञाश्च ये वृक्षा अतिह्रस्वा अतिकृशाः ।तान् सदा वर्जयेद्धीरः सर्व्वदा शक्रपूजने
अर्ज्जुनोऽप्यश्वकर्णश्च प्रियको धव एव ।औडुम्बरश्च पञ्चैते केत्वर्थे सत्तमाः स्मृताः
अन्ये देवदार्व्वाद्याः शालाद्यास्तरवस्तथा ।प्रशस्तास्तु परिग्राह्या नाप्रशस्ताः कदाचन ।तञ्च वृक्षं ततो रात्रौ स्पृष्ट्वा मन्त्रमिमं पठेत्
यानि वृक्षे तु भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः ।उपहारं गृहीत्वेमं क्रियतां वासवध्वजः
पार्थिवस्त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम ।ध्वजाथदेवराजस्य पूजेयं प्रतिगृह्यताम्
ततोपरेऽह्नि तं छित्त्वा मूलमष्टाङ्गुलं पुनः ।जले क्षिपेत्तदग्रस्य छित्त्वैवं चतुरङ्गुलम्
ततो नीत्वा पुरद्वारं केतुं निर्म्माय तत्र वै ।शुक्लाष्टम्यां भाद्रपदे केतुं वेदीं प्रवेशयेत्
द्वाविंशद्धस्तमानस्तु अधमः केतुरुच्यते ।द्वात्रिंशत्त ततो ज्यायान् द्वाचत्वारिंशदेव ।ततोऽधिकः समाख्यातो द्वापञ्चाशत्तथोत्तमः ।कुमार्य्यः पञ्च कर्त्तव्याः शक्रस्य नृपसत्तम ।शालमय्यस्तु ताः सर्व्वास्त्वपराः शक्रमातृकाः
केतोः पादप्रमाणेन कार्य्याः शक्रकुमारिकाः
मातृकार्द्धप्रमाणात्तु यन्त्रं हस्तद्वयं तथा ।एवं कृत्वा कुमारीश्च मातृकां केतुमेव
एकादश्यां सिते पक्षे यष्टिं तामधिवासयेत् ।अधिवास्य ततो यष्टिं गन्धद्वारादिमन्त्रकैः
द्वादश्यां मण्डलं कृत्वा वासवं विस्तृतात्मकम् ।अच्युवं पूजयित्वा तु शक्रं पश्चात् प्रपूजयेत्
शक्रस्य प्रतिमां कुर्य्यात् कानकीं दारवीं तथा ।अन्यतैजसभूतां वा सर्व्वाभावे तु मृण्मयीम्
तां मण्डलस्य मध्ये तु पूजयित्वा विशेषतः ।ततः शुमे मुहूर्त्ते तु केतुमुत्थापयेन्नृपः
वज्रहस्त सुरारिन्न बहुनेत्र पुरन्दर ।क्षेमार्थं सर्व्वलोकानां पूजेयं प्रतिगृह्यताम्
एह्येहि सर्व्वामरसिद्धसंघै-रभिष्टुतो वज्रधरामरेश ।समुत्थितस्त्वं श्रवणाद्यपादेगृहाण पूजां भगवन् नमस्ते
एवमुत्तरतन्त्रोक्तैर्दहनप्लवनादिभिः ।इति मन्त्रेण तन्त्रेण नानानैवेद्यवेदनैः
आपूपैः पायसैः पानैर्गुडैर्धानाभिरेव ।भक्ष्यैर्भोज्यैश्च विविधैः पूजयेत् श्रीविवृद्धये
घटेषु दशदिक्पालान् ग्रहांश्च परिपूजयेत् ।साध्यादीन् सकलान्देवान् मातॄः सर्व्वास्त्वनु-क्रमात्
ततः शुभे मुहूर्त्ते तु ज्ञानिवर्द्धकिसंयुतः ।केतोरुत्थानभूमिन्तु यज्ञवेद्याश्च पश्चिमे ।विप्रैः प्ररोहितैः सार्द्धं गच्छेद्राजा सुमङ्गलैः
रज्जुभिः पञ्चभिर्ब्बद्धं यन्त्रश्लिष्टं समातृकम् ।कुमारीभिश्च संयुक्तं दिक्पालानाञ्च पेटकैः
”पेटकैः स्थाने पट्टकैरिति पाठः ।“बृहद्भिरतिकान्तैश्च नानाद्रव्यसुपूरितैः ।यथावर्णैर्यथादेशयोजितैर्व्वस्त्रवेष्टितैः
युक्तं तं किङ्किणीजालैर्बृहद्घण्टौघचामरैः ।भूषितं बहुरत्नैश्च माल्यैर्ब्बहुविधैस्तथा
बहुपुष्पैः सुगन्धैश्च भूषितं रत्नमालया ।चित्रमाल्याम्बरधरैश्चतुर्भिरपि तोरणैः
उत्थापयेन्महाकेतुं राजामात्यैः शनैः शनैः ।तमुत्थाप्य महाकेतुं पूजितं मण्डलान्तरे
प्रतिमां तां नयेन्मूलं केतोः शक्रं विचिन्तयन् ।यजेत्तं पूर्व्ववत्तत्र शचीं मातलिमेव
जयन्तं तनयं तस्य वज्रमैरावतं तथा ।ग्रहांश्चाप्यथ दिक्पालान् सर्व्वाश्च गणदेवताः
अपूपाद्यैः पूजयेत्तु बलिभिः पायसादिभिः ।पूजितानाञ्च देवानां शश्वद्धोमं समाचरेत्
होमान्ते तु बलिं दद्यात् वासवाय महात्मने
तिलं घृतं चाक्षतञ्च पुष्पं दूर्व्वां तथैव ।एतैस्तु जुहुयाद्देवान् स्वैः स्वैर्मन्त्रैर्नरोत्तमः
ततो होमावसाने तु भोजयेदपि ब्राह्मणान् ।एवं संपूजयेन्नित्यं सप्तरात्रं दिने दिने
ब्राह्मणैः सहितो राजा वेदवेदाङ्गपारगैः ।सर्व्वत्र शक्रपूजासु यज्ञेषु परिकीर्त्तितः
त्रातारमिति मन्त्रोऽयं वासवस्य प्रियः सदा ।एवं कृत्वा दिवाभागे शक्रोत्थापनमादितः
श्रवणर्क्षयुतायान्तु द्बादश्यां पार्थिवः स्वयम् ।अन्त्यपादे भरण्यास्तु निशि शक्रं विसर्जयेत्
सुप्तेषु सर्व्वलोकेषु यथा राजा पश्यति ।षण्मासान्मृत्युमाप्नोति राजा दृष्ट्वा विसर्जनम्
शक्रस्य नृपशार्द्दूल तस्मान्नेक्षेत तं नृपः ।विसर्ज्जनस्य मन्त्रोऽयं पुराविद्भिरुदीरितः
सार्द्धं सुरासुरगणैः पुरन्दर शतक्रतो ।उपहारं गृहीत्वेमं महेन्द्रध्वज गम्यताम्
सूतकेतुसमुत्पन्ने वारे भौमस्य वा शनेः ।भूमिकम्पादिकोत्पाते वासवं विसर्जयेत्
उत्पाते सप्तरात्रन्तु तथोपप्लवदर्शने ।व्यतीत्य शनिर्भौमौ ह्यन्यर्क्षेऽपि विसर्ज्जयेत्
मृतके त्वथ संप्राप्ते व्यतीते सूतके पुनः ।तस्मिंस्तस्मिन् दिने चैव सूतकान्ते विसर्ज्जयेत्
तथा रक्षेन्नृपः केतुं पतन्ति शकुना यथा ।न केतौ नृपशार्द्दूल यावन्नपि विसर्जनम्
शनैः शनैः पातयेत्तु यथोत्थापनमादितः ।कृतं तथान्यथा भग्ने केतौ मृत्युमवाप्नुयात्
विसृष्टं शक्रकेतुं तं सालङ्कारं तथा निशि ।क्षिपेदनेन मन्त्रेण त्वगाघे सलिले नृपः
तिष्ठ केतो महाभाग यावत् संवत्सरं जले ।भवाय सर्व्वलोकानामन्तरायविनाशक
उत्थापयेत्तूर्य्यरवैः सर्व्वलोकस्य वै पुरः ।रहो विसर्जयेत् केतुं विशेषोऽयं प्रपूजने
एवं यः कुरुते पूजां वासवस्य महात्मनः ।स चिरं पृथिवीं भुक्त्वा वासवं लोकमाप्नुयात्
तस्य राज्ये दुर्भिक्षं नेतयो नाप्यधर्म्मकृत् ।स्थास्यन्ति मृत्युर्नाकाले जनानां तत्र जायते
तत्तुल्यः कोऽपि नान्योऽस्ति प्रियः शक्रस्यपार्थिव ।तस्य पूजा सर्व्वपूजा केशवाद्याश्च तत्रगाः
सकलकलुषहारि व्याधिदुर्भिक्षनाशिसकलभवनिवेशं सर्व्वसौभाग्यकारि ।सुरपतिगृहगामीहार्च्चनं शक्रकेतोःप्रतिशरदमनेकैः पूजयेत् श्रीविवृद्ध्यै
”इति श्रीकालिकापुराणे ८८ अध्यायः