| YouTube Channel

शक्रध्वज: (zakradhvaja:)

 
शब्दसागरः
English
शक्रध्वज
n.
(-जं) A pole or flag set up in honour of INDRA.
E.
शक्र and ध्वज a flag.
Yates
English
शक्र-ध्वज (जं) 1.
n.
Flag of or for
Indra.
Wilson
English
शक्रध्वज
n.
(-जं) A pole or flag set up in honour of INDRA.
E.
शक्र, and ध्वज a flag.
Monier Williams Cologne
English
शक्र—ध्वज
m.
I°'s banner,
MBh.
R.
VarBṛS.
Apte Hindi
Hindi
शक्रध्वज:
पुं*
शक्रः-ध्वज: -
इन्द्र के सम्मान में स्थापित झंडा
L R Vaidya
English
Sakra-Dvaja {% m. %} a flag set up in honour of Indra.
Indian Epigraphical Glossary
English
śakra-dhvaja, cf. indra-daṇḍa.
शब्दकल्पद्रुमः
Sanskrit
शक्रध्वजः, (शक्रस्य ध्वजः ।) इन्द्रध्वजः (यथा, आर्य्यासप्तसत्याम् २६९ ।“ते श्रेष्ठिनः क्व सम्प्रति शक्रध्वज ! यैः कृत-स्तवोच्छ्रायः ।ईषां वा मेढिं वाधुनातनास्त्वां विधित्सन्ति
”)तद्विवरणं यथा, --नृपवाहन उवाच ।“भगवन् श्रोतुमिच्छामि तस्य उत्थापनं यथा ।क्रियते दिन ऋक्षे द्रव्यमन्त्रविधिं वद
अगस्त्य उवाच ।ब्रह्मणा कथितं शक्र बृहस्पतिसमीपतः ।यथा तथा प्रवक्ष्यामि विधिं केतोः समुच्छ्रये
बृहस्पतिरुवाच ।शुभाहे ऋक्षे करणे मुहूर्त्ते शुभमङ्गले ।दैवज्ञः सूत्रधारश्च वनं गच्छेत् सहायवान्
देवीप्रतिष्ठाविधिना यात्रायां या प्रचोदिता ।गत्वा बृक्षं शुभं पुष्पं धवार्ज्जुनप्रियङ्करम्
उडुम्बराजकर्णञ्च पञ्चैते शोभना हरेः ।ध्वजार्थे वर्जयेद्बत्स देव उद्यानजान् द्रुमान्
कन्या मध्ये तु या यष्टीः करमानेन कल्पयेत् ।एकादशकरा वत्स नव पञ्च करापरा
अरालतां क्रिमिचितां तथा पक्षिनिकेतनाम् ।वल्मीकपितृवनजां सुशुष्ककोटरान्तराम्
कुब्जाञ्च घटसिक्ताञ्च तथा स्त्रीनामगर्हिताम् ।विद्युद्वज्रहताञ्चैव दग्धाञ्च परिवर्जयेत्
अलाभे चन्दनं आम्रं शालशाकमयं तथा ।कर्त्तव्यं शक्रचिह्रार्थे चान्यं वृक्षजं क्वचित्
शुभभूमिभवं ग्राह्यं शुभतोयं शुभावहम् ।ततः संपूजयेद्वृक्षं प्राङ्मुखोदङ्मुखोऽपि वा
नमो वृक्षपते वृक्ष त्वामर्च्चयति पार्थिवः ।ध्वजार्थं तत्त्वतो नाथ अन्यथा उपगम्यताम्
रात्रौ देयो वलिस्तत्र युगवृक्षे तथव ।वासवानां महावृक्षं कृत्वा चान्यत्र गम्यताम्
ध्वजार्थे देवराजस्य क्षान्तिस्तव अत्र ।पूजयित्वा ततो वृक्षं बलिं भूताय दापयेत्
प्रभाते छेदयेद्वृक्षं शुभस्वप्नादिदर्शनैः ।शुक्लाम्बरधरश्चैव समुद्रतरणं नदी
वृक्षान्नम्रान् शुभान् क्षीरानारोहेत् देवता-लयम् ।देवो द्बिजस्तथा साधुलिङ्गब्रह्म हरेरपि
प्रतिमा पूजिता स्वप्ने क्षिप्रं सिद्धिफलप्रदा ।मत्स्यमांसदधिलाभं रुधिरं मृतरोदनम्
अगम्यागमनं दृष्ट्वा आशु सिद्धिफलप्रदम् ।द्रुमांस्तिलं घनं धान्यं शत्रुनाशं यथा शुभम्
फलं पुष्पं सिता दूर्व्वा स्वप्ने लब्धा जयावहाः ।शङ्खगावस्तथा दन्तिलाभा राज्यप्रदायकाः
गौः सवत्सा नवसुता दृष्टा पुत्त्रफलप्रदा ।पङ्कस्योद्धरणं कूपे व्याधिमोक्षकरं चिरात्
एवं स्वप्नान् शुभान् दृष्ट्वा तथा छिन्देत पाद-पम् ।उदङ्मुखः प्राङ्मुखो पा मधुवज्राक्तपर्शुना
पूर्व्वोत्तरे पतनं शस्तोऽशब्दोऽव्रणः शुभः ।अलग्नपादपे चान्ये अन्यथा तु परित्यजेत्
अष्टाङ्गुलं त्यजेत् मूले अग्रे तन्तु जले क्षिपेत् ।तथा तमानयेद्वत्स शकटेन वृषैरपि
युवानैर्बलसम्पन्नैर्नेयं तत्पुरतः परम् ।नीयमाना यदा यष्टी समा वा चतुरस्रका
वृत्ता वा भङ्गमाधत्ते राज्ञः पुत्त्रं पुरोहितम् ।आरभङ्गे बलं भिन्द्याद्राज्यनाशं क्षयं तथा
अर्थस्य अक्षभङ्गेन शान्तिन्तत्र तु कारयेत् ।इन्द्रर्जच्छत्रमन्त्रेण जातदेवसमापि वा
तथा नीत्वा शुभे लग्ने पुरस्तादुपवेशयेत् ।द्बारशोभां पथरथ्या गृहे हट्टे कारयेत्
यदा पटहनादाश्च वेश्याशङ्खद्बिजातयः ।सङ्कुलैर्वेदशब्दैश्च ता नेया यत्र उच्छ्रयेत्
तत्रस्थाञ्चित्रकर्म्मावनिर्म्मितैस्तान्तु वेष्टयेत् ।वस्त्रैरण्डजरोमोत्थैः शुभैः शुक्लैर्यथाक्रम्
नन्दोपनन्दसंज्ञाश्च कुमार्य्यः प्रथमांशगाः ।देवो जयविजयाख्याः षोडशांशव्यवस्थिताः
अधिके शत्रुजयित्री तथार्थजा दैवतैर्दण्डाः ।ध्वजपरिमाणार्थं सपरिधिः प्रथमं पिटम्
षोडशांशविहीनानि कुर्य्याच्छेषाणि बुद्धिमान् ।रसनां विचित्रवर्णां प्रथमां दद्यात् स्वयम्भूः
सुरक्तां चतुरस्राञ्च विश्वकर्म्मा द्बितीयतः ।अष्टास्रान्तु स्वयं शक्रो नीलरक्तां प्रदापयेत्
कृष्णं यमेन वृत्तञ्च वरुणेन सहस्रिकम् ।मञ्जिष्ठाजलदाकारं वासुदेवो मसूरकम्
नीलवर्णञ्च तं दद्यात् स्कन्दो बहुविचित्रितम् ।वृत्तन्तु दहनो दत्यात् सुवर्णाभं तथाष्टमम्
वैदूर्य्यसदृशमिन्द्रो ग्रैवेयं दापयेद् बुधः ।चक्राङ्काकृतिन्तु सूर्य्यो विश्वेदेवाः पद्मनिभम्
ऋषयो नियमं दद्युर्नीलं नीलोत्पलाभासम् ।गुरुणा शुक्रेण ततो विशालं मूर्द्धतो न्यस्तम्
गृहैर्विचित्राणि बहुमातृभिः स्वानि रूपाणि ।यद्येकेनैव दत्तन्तु केतोस्तत्तस्य भूषणम्
तदैव तं विजानीयाद्यन्त्रादिभिस्तमुच्छ्रयेत् ।प्रथमं प्रविशमाना भूमिं यष्टिर्हन्ति राष्ट्रम्
बालानां तालशब्देन देशविधातं समाचष्टे ।नृपवधकरा विशीर्णा शुभावहा सर्व्वसान्द्रा
शम्भुमूर्य्ययमशक्रसोमधनदवारुणैः ।बह्नीशऋषिमन्त्राश्च होतव्या दधि चाक्षताः
शुक्रस्कन्दगुरुरुद्रअप्सरादि प्रपाठयेत् ।हुत्वा तु विधिवद्बह्निज्वालां लक्षेत बुद्धिमान्
सुतेजाः सुमनो दीप्तः संहतो रुचिरप्रभः ।रक्ताशोकसमाकारो रथभेरीस्वनः शुभः
शङ्खदुन्दुभिमेघानां नादाः शस्तास्तु पावके ।ततः सकदलीक्षुदण्डान् पताकानि समुच्छ्रये
अन्याश्च विविधाः शोभाः शक्रकेतुसमुच्छ्रये ।प्रौष्ठपदे तु अष्टम्यां शुक्लायां शोभने ऋक्षे
आश्विने वाथ शुक्लायां श्रवणेनाथ उच्छ्रयेत् ।पौरजनलग्नवृन्दैः पटभेरीनिनादितम्
वितानध्वजशोभाट्यं पताकाभिः समुज्ज्वलम् ।विष्ण्वीशशक्रमन्त्रेण सिंहरक्षाकृतेन
दृढमातृकरन्ध्रस्थं शुभतोरणमाकुलम् ।अविलम्बितमुत्थानमभग्नपिटकं समम्
हुतं वा समुत्थाप्य केतुं वासवजं विभो ।उच्छ्रितं रक्षयेत्प्राज्ञः काकोलूककपोतयोः
समुत्थापनं दद्यादन्येषामपि पक्षिणाम् ।यन्त्रोद्देशेन तं कुर्य्यात् मुखं केतोर्यथाविधि
तथा सुसंस्थितं पूज्यं मुखयन्त्रसुयन्त्रितम् ।रात्रौ जागरणं कुर्य्यादिन्द्रमन्त्रानुकीर्त्तनम्
पुरोहितः सदैवज्ञः शुभशान्तिरतः सदा ।छत्रपातो नृपं हन्यात् पताका महिषीवधम्
पिटके युवराजस्य सचिवमनुकम्पते ।राष्ट्रं तोरणपातेन ध्वजे अन्नक्षयो भवेत्
पतिते शक्रदण्डे तु नृपमन्यं समादिशेत् ।कृमिजालक उत्थाने शलभात्तस्कराद्भयम् ।सुसमे संस्थिते शान्तिर्नृपस्य नगरस्य
याचोच्छ्रितन्तु तिष्ठन्ति तावत् पौराः सदाहृष्टाः ।केतोर्निरता यजने भुञ्जीयाद्विप्रकन्याश्च
पाते तु तथैव कुर्य्यादुत्थाने यादृशी पूजा ।रात्रौ शुभकृत् पातनं नो दृष्टं काककपोतैः
याति नृपं सहराष्ट्रं यश्चैव कारयेत् केतुम् ।नगरे वा पुरे खेटे यद्येवं कुर्व्वते पौराः
पुरे नगरस्य द्वारे वृषसिंहखगोत्थितम् ।केतु समस्तघोराणां नाशनं जयदं महत्
एवं पूर्व्वं हरिः केतुं प्राप्तवान् वृषवाहनात् ।तथा ब्रह्मसुतेनैव ब्रह्मणः शक्रमागतः
तेन सोमस्य तद्वृत्तं ततो दक्षे समागतम् ।तदाप्रभृति कुर्व्वन्ति नृपा अद्यापि उच्छ्रयम्
एवं यः कारयेद्राजा केतुं विजयकारकम् ।तस्य पृथ्वी बलोपेता सद्बीपा वशगा भवेत्
”इत्याद्ये देवीपुराणे इन्द्रध्वजलक्षणम् २१अध्यायः
वाचस्पत्यम्
Sanskrit
शक्रध्वज
पु०
त० भाद्रशुक्लद्वादश्यां पूज्ये इन्द्रदैवतेध्वजाकारे पदार्थे इन्द्रध्वजशब्दे ९४६ पृ० दृश्यम्