| YouTube Channel

शक्रधनुः (zakradhanuH)

 
शब्दकल्पद्रुमः
Sanskrit
शक्रधनुः, [स्]
क्ली,
(शक्रस्य धनुः ।) इन्द्रधनुः ।इत्यमरः
गण्डी इति रामधनुक इति चभाषा
“इन्द्रायुधं शक्रधनुः कौशिकायुधमित्यपि ।ऐरावतं रोहितं स्यादवक्रं यदि तद्धनुः
”इति शब्दरत्नावली
(यथा, महाभारते ५६ ११ ।“यथाकाशे शक्रधनुः प्रकाशतेन चैकवर्णं वेद्मि किन्नु तत्
”)