| YouTube Channel

शक्तुः (zaktuH)

 
Wordnet
Sanskrit
Synonyms:
यवः, शितश्रूकः, सितश्रूकः, मेध्यः, दिव्यः, अक्षतः, कञ्चुकी, धान्यराजः, तीक्ष्णश्रूकः, तुरगप्रियः, शक्तुः, महेष्टः, पवित्रधान्यम्
noun
श्रूकधान्यविशेषः। अस्य गुणाः - कषायत्व-मधुरत्व-सुशीतलत्वादयः।
सीता यवान् चणकान् पिनष्टि।/ "यवः कषायमधुरो बहुवातशकृद् गुरुः। रूक्षः स्थैर्यकरः शीतो मूत्रमेदकफापहः॥"
Synonyms:
यवः, यवकः, तीक्ष्णशूकः, प्रवेटः, शितशूकः, मेध्यः, दिव्यः, अक्षतः, कञ्चुकी, धान्यराजः, तुरगप्रियः, शक्तुः, महेष्टः, पवित्रधान्यम्
noun
सस्य-विशेषः, यस्य बीजस्य गुणाः कषायत्व-मधुरत्व-प्रमेहपित्तकफापहारकत्वादयः।
"श्यामः भूमौ यवं रोपयति।"
शब्दकल्पद्रुमः
Sanskrit
शक्तुः,
पुं,
क्ली,
(शक + बाहुलकात् तुन् ।) भर्ज्जित-यवादिचूर्णम् छातु इति भाषा यथा, --“धाना भृष्टयवे भूम्नि स्त्रियां पुं भूम्नि शक्तवः ।केचित्तु शक्तुरस्त्रीति बन्धुरा भूमनि स्त्रियाम्
”इति जटाधरः
अस्य गुणाः ।“यवानां शक्तवो रूक्षा लेखना वह्निवर्द्धनाः ।वातलाः कफरोगघ्ना वातवर्च्चोऽनुलोमनाः
धानासंज्ञास्तु तेऽतीव दुर्जरा लेखनाः स्मृताः ।गुर्व्वी पिण्डीकृतात्यर्थं लघ्वी सैव विपर्य्ययात् ।शक्तूनामाशु जीर्य्येत मृदुत्वादवलेहिका
”इति राजवल्लभः
अथ शक्तवः ।“धान्यानि भ्राष्ट्रभृष्टानि यन्त्रपिष्टानि शक्तवः ।”तत्र यवशक्तवः ।“यवजाः शक्तवः शीता दीपना लघवः सराः ।कफपित्तहरा रूक्षा लेखनाश्च प्रकीर्त्तिताः
ते पीता बलदा वृष्या बृंहणा भेदनास्तथा ।तर्पणा मधुरा रुच्याः परिणामे बलावहाः
कफपित्तश्रमक्षुत्तृड्व्रणनेत्रामयापहाः ।प्रशस्ता घर्म्मदाहृद्या व्यायामार्त्तशरीरिणाम्
”अथ चणकयवशक्तवः ।“निस्तुषैश्चणकैर्भृष्टैस्तूर्य्यांशैश्च यवैः कृताः ।शक्तवः शर्करासर्पिःशक्ता ग्रीष्मेऽतिपूजिताः
”अथ शालिशक्तवः ।“शक्तवः शालिसंभूता वह्निदा लघवो हिमाः ।मधुरा ग्राहिणो रुच्याः पथ्याश्च बलशुक्रदाः
भुक्त्वा रदैश्छित्त्वा निशायां वा बहून् ।न जलान्तरितान् द्बिः शक्तूनद्यान्न केवलान्
पृथक्पानं पुनर्द्दानं सामिषं पयसा निशि ।दन्तच्छेदनमुष्टञ्च सप्त शक्तुषु वर्ज्जयेत्
”इति भावप्रकाशः
जन्मतिथौ तद्भक्षणफलम् ज्योतिषे ।“शक्तून् खादति यस्तु तस्य रिपवो नाशंप्रयान्ति ध्रुवंभुङ्क्ते यस्तु निरामिषं हि भवेत् जन्मान्तरेपण्डितः ।”इति तिथ्यादितत्त्वम्
मेषसंक्रान्त्यां तद्दानविधिर्यथा स्मृतिः ।“मेषादौ शक्तवो देया वारिपूर्णा गर्गरी ।”महार्णवे ।“यो ददाति हि मेषादौ शक्तूनम्बुघटान्वितान् ।पितॄनुद्दिश्य विप्रेभ्यः सर्व्वपापैः प्रमुच्यते ।विप्रेभ्यः पादुके छत्रं पितृभ्यो विषुवे शुभम्
”इति तिथ्यादितत्त्वम्
चातुर्मास्यव्रते प्रातः स्नानस्य घृतशक्तवो दक्षिणायथा नारदीयम् ।“नित्यस्नाने हविर्द्दद्यान्निःस्नेहे घृतशक्तवः
”नित्यस्नाने प्रातःस्नाने इति मलमासतत्त्वम्